Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 3 / 11 / 4

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥ 4॥

Veda : Atharvaveda | Kand : 3 | Sukta : 11 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : ब्रह्मा, भृग्वङ्गिराः | देवता : इन्द्राग्नी, आयुः, यक्ष्मनाशनम् | छन्द : शक्वरीगर्भा जगती | स्वर :

विषय : रोग नाश करने के लिये उपदेश।

पदपाठ : श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥

पदार्थ : (वर्धमानः+त्वम्) बढ़ती करता हुआ तू (शतम् शरदः) सौ शरद् ऋतुओं तक (शतम् हेमन्तान्) सौ शीत ऋतुओं तक (उ) और (शतम् वसन्तान्) सौ वसन्त ऋतुओं तक (जीव) जीता रह। (इन्द्रः) ऐश्वर्यवान् (अग्निः) तेजस्वी विद्वान्, (सविता) सबका चलानेवाला, (बृहस्पतिः+अहं जीवः) बड़ों-बड़ों के रक्षक मैंने (शतम्) अनेक प्रकार से (ते) तेरेलिये (शतायुषा) सैकड़ों जीवन शक्तिवाले (हविषा) आत्मदान वा भक्ति से (एनम्) इस [आत्मा] को (आ अहार्षम्) उभारा है ॥४॥"

भावार्थ : मनुष्य उचित रीति से वर्षा, शीत और उष्ण ऋतुओं को सहकर बहु प्रकार मन्त्रोक्त विधि पर विद्यादिबल से शक्तिमान् होकर जीविका उपार्जन करता हुआ आत्मा की उन्नति करे ॥४॥ ऋग्वेद में (इन्द्रः अग्निः)=इन्द्राग्नी और (आ अहार्षम् एनम्)=[इमम् पुनः दुः] ॥

टिप्पणी :४−(शतम्)। बहुनाम। (जीव)। प्राणान् धारय। (शरदः)। शरदृतून् वर्षाकालान् इत्यर्थः। (वर्धमानः)। वृद्धिं कुर्वाणः। हेमन्तान्। हन्तेर्मुट् हि च। उ० ३।१२९। इति हन वधगत्योः-झच्, हन्तेर्हि, मुडागमः। हन्ति उष्णत्वम्। शीतकालान्। (उ)। समुच्चये। (वसन्तान्)। तॄभूवहिवसिभासि०। उ० ३।१२८। इति वस वासे, निवासे, आच्छादने च-झच्। पुष्पसमयान्। ग्रीष्मकालान्। (शतम्)। यथा तथा। बहुप्रकारेण। (ते)। तुभ्यम्। (इन्द्रः)। ऐश्वर्यवान्। (अग्निः)। अगि गतौ-नि। ज्ञानवान्। (सविता)। सर्वस्य प्रेरकः। (बृहस्पतिः)। अ० १।८।२। तथा २।१३।२। बृहत्+पतिः, सुट्, तलोपः। बृहतां विदुषां कर्मणां वा पालकः। इन्द्रादीनि चत्वारि (अहम्) इति पदस्य विशेषणानि। अन्यद् व्याख्यातम्-म० ३ ॥