Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 6 / 6

अ॑र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अर॒सं वि॒षम्। उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ॥ 6॥

Veda : Atharvaveda | Kand : 4 | Sukta : 6 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : गरुत्मान् | देवता : विषम् | छन्द : अनुष्टुप् | स्वर :

विषय : विष दूर करने के लिये उपदेश।

पदपाठ : अ॒र॒स: । ते॒ । इ॒षो॒ इति॑ । श॒ल्य: । अथो॒ इति॑ । ते॒ । अ॒र॒सम् । वि॒षम् । उ॒त । अ॒र॒सस्य॑ । वृ॒क्षस्य॑ । धनु॑: । ते॒ । अ॒र॒स॒ । अ॒र॒सम् ॥६.६॥

पदार्थ : (इषो) हे हिंसक वैरी ! (ते) तेरे (शल्यः) बाण की अणि (अरसः) निर्बल (अथो) और भी (ते) तेरा (विषम्) विष (अरसम्) निर्बल [हो जावे]। (उत) और (अरस) हे निर्बल शत्रु ! (अरसस्य) निर्बल (वृक्षस्य) वृक्ष का (ते धनुः) तेरा धनुष (अरसम्) निकम्मा [हो जावे] ॥६॥ "

भावार्थ : चिकित्सक लोग ऐसी उत्तम संजीवनी ओषधें उपस्थित रक्खें, जिनसे शत्रुओं के अस्त्र-शस्त्रों के घाव योधाओं के अङ्गों में भरकर तुरन्त अच्छे हो जावें ॥६॥

टिप्पणी :६−(अरसः) निर्बलः (ते) तव। (इषो) इषेः किच्च। उ० १।१३। इषति हिनस्तीति इषुः। हे हिंसक ! हे बाण ! हे बाणधारिन्-इत्यर्थः (शल्यः) म० ४। बाणाग्रभागः (अथो) अपि च (अरसम्) निर्वीर्यम्। निष्प्रभावम् (विषम्) (उत) अपि च (अरसस्य) निःसारस्य (वृक्षस्य) अ० १।२।३। अ० ३।६।८। वृक्ष वरणे-क। स्वीकरणीयस्य। विटपस्य। वृक्षकाष्ठस्येत्यर्थः (धनुः) अ० ४।४।६। चापः (ते) तव (अरस) निर्वीर्यशत्रो ॥