Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 30 / 3

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्। यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ 3॥

Veda : Atharvaveda | Kand : 4 | Sukta : 30 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर के गुणों का उपदेश।

पदपाठ : अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥३०.३॥

पदार्थ : (अहम्) मैं (एव) ही (स्वयम्) आप (देवानाम्) सूर्य आदि लोकों (उत) और (मानुषाणाम्) मननशील मनुष्यों का (जुष्टम्) प्रिय (इदम्) यह वचन (वदामि) कहता हूँ। [अर्थात्] (यम्) जिस-जिसको (कामये) मैं चाहता हूँ (तम्-तम्) उस-उसको ही [कर्मानुसार] (उग्रम्) तेजस्वी, (तम्) उस को ही (ब्रह्माणम्) वृद्धिशील ब्रह्मा, (तम्) उसी को (ऋषिम्) सन्मार्गदर्शक ऋषि, (तम्) उसीको (सुमेधाम्=०-धम्) उत्तम बुद्धिवाला (कृणोमि) बनाता हूँ ॥—३॥"

भावार्थ : परमात्मा सब लोकों और प्राणियों को शरण में रखकर उपदेश करता है कि मैं अपने आज्ञाकारियों को प्रीतिपूर्वक उत्तम गति देता हूँ ॥—३॥

टिप्पणी :३−(अहम्) परमेश्वरः (एव) अवधारणे। नान्योऽस्ति ममोपदेष्टेति यावत् (स्वयम्) आत्मना (इदम्) अनुभूयमानं ब्रह्मात्मकं वाक्यम् (वदामि) उपदिशामि। प्रकटयामि (जुष्टम्) प्रियं हितम्। सेवितम् (देवानाम्) सूर्यादिलोकानाम् (उत) अपि च (मानुषाणाम्) मननशीलानां मनुष्याणाम् (यम्) उपासकम् (कामये) वाञ्छामि (तम्-तम्) प्रत्येकं वीप्सितं पुरुषम् (उग्रम्) दुष्प्रधर्षं तेजस्विनम् (कृणोमि) करोमि (ब्रह्माणम्) बृंहेर्नोऽच्च। उ० ४।१४६। इति बृहि वृद्धौ-मनिन्। नस्य अकारः। बृंहति वर्धते बृंहयति वर्धयति वेदज्ञानेन स ब्रह्मा। विधातारं ब्रह्माणम् (ऋषिम्) अ० २।६।१। ऋषिर्दर्शनात्-निरु० २।१। आप्तं सन्मार्गदर्शकम् (सुमेधाम्) दीर्घश्छान्दसः। सुमेधम्। सुमेधसम्। शोभनप्रज्ञम् ॥—