Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 11 / 11

दे॒वो दे॒वाय॑ गृण॒ते व॑यो॒धा विप्रो॒ विप्रा॑य स्तुव॒ते सु॑मे॒धाः। अजी॑जनो॒ हि व॑रुण स्वधाव॒न्नथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुम्। तस्मा॑ उ॒ राधः॑ कृणुहि सुप्रश॒स्तं सखा॑ नो असि पर॒मं च॒ बन्धुः॑ ॥11॥

Veda : Atharvaveda | Kand : 5 | Sukta : 11 | Paryay : | Mantra No : 11

In Hindi:

ऋषि : अथर्वा | देवता : वरुणः | छन्द : त्र्यवसाना षट्पदात्यष्टिः | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : दे॒व: । दे॒वाय॑ । गृ॒ण॒ते । व॒य॒:ऽधा: । विप्र॑: । विप्रा॑य । स्तु॒व॒ते । सु॒ऽमे॒धा: । अजी॑जन: । हि । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । अथ॑र्वाणम् । पि॒तर॑म् । दे॒वऽब॑न्धुम् । तस्मै॑ । ऊं॒ इति॑ । राध॑: । कृ॒णु॒हि॒ । सु॒ऽप्र॒श॒स्तम् । सखा॑ । न॒: । अ॒सि॒ । प॒र॒मम् । च॒ । बन्धु॑: ॥११.११॥

पदार्थ : (स्वधावन्) हे आत्मधारणवाले, स्वाधीन (वरुण) श्रेष्ठ ! तू (गृणते) तेरी स्तुति करनेवाले (देवाय) विद्वान् पुरुष को (वयोधाः) बल वा अन्न धारण करनेवाला (देवः) तू देव है। और (स्तुवते) तेरी स्तुति करनेवाले (विप्राय) पण्डित के लिये (सुमेधाः) उत्तम बुद्धिवाला (विप्रः) पण्डित है। तूने (हि) ही (पितरम्) हमारे पालनकर्ता (देवबन्धुम्) विद्वानों के बन्धु (अथर्वाणम्) निश्चलस्वभाव पुरुष को (अजीजनः) उत्पन्न किया है। (तस्मै) उसके लिये (उ) ही (सुप्रशस्तम्) अति उत्तम (राधः) धन (कृणुहि) कर, तू (नः) हमारा (सखा) सखा (च) और (परमम्) अतिशय करके (बन्धुः) बन्धु (असि) है ॥११॥"

भावार्थ :

टिप्पणी :११−(देवः) प्रकाशमानः (देवाय) विदुषे (गृणते) त्वां स्तुवते (वयोधाः) बलस्य अन्नस्य वा दाता (विप्रः) मेधावी (विप्राय) मेधाविने (स्तुवते) त्वां प्रशंसते पुरुषाय (सुमेधाः) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+मेधा−असिच्। सुबुद्धियुक्तः (अजीजनः) त्वमुत्पादितवानसि (हि) निश्चयेन (वरुण) हे वरणीय पुरुष (स्वधावन्) म० ४। हे आत्मधारणयुक्त (अथर्वाणम्) म० २। निश्चलस्वभावम् (पितरम्) पालकं पितृवन्मान्यम् (देवबन्धुम्) विदुषां हितम् (तस्मै) अथर्वणे (उ) अवश्यम् (राधः) धनम् (कृणुहि) कुरु। देहि (सुप्रशस्तम्) अतिशयेन श्रेष्ठम् (सखा) मित्रम् (नः) अस्माकम् (असि) भवसि (परमम्) अतिशयेन (च) अवधारणे (बन्धुः) हितकरः ॥