Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 13 / 1

द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्। खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥ 1॥

Veda : Atharvaveda | Kand : 5 | Sukta : 13 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : गरुत्मान् | देवता : तक्षकः | छन्द : अनुष्टुप् | स्वर :

विषय : दोषनिवारण के लिये उपदेश।

पदपाठ : द॒दि: । हि । मह्य॑म् । वरु॑ण: । दि॒व: । क॒वि: । वच॑:ऽभि: । उ॒ग्रै: । नि । रि॒णा॒मि॒ । ते॒ । वि॒षम् । खा॒तम् । अखा॑तम् । उ॒त । स॒क्तम् । अ॒ग्र॒भ॒म् । इरा॑ऽइव । धन्व॑न् । नि । ज॒जा॒स॒ । ते॒ । वि॒षम् ॥१३.१॥

पदार्थ : (दिवः) व्यवहार की (कविः) बुद्धिवाला (वरुणः) श्रेष्ठ परमेश्वर (हि) ही (मह्यम्) मुझको (ददिः) दाता है। (उग्रैः) प्रचण्ड (वचोभिः) वचनों से [हे सर्प] (ते विषम्) तेरे विष को (नि रिणामि) मिटाये देता हूँ। (खातम्) खुदे हुए (अखातम्) बिना खुदे (उत) और (सक्तम्) चिपटे हुए [विष] को (अग्रभम्) मैंने पकड़ लिया है। (ते विषम्) तेरा विष (धन्वन्) रेतीले देश में (इरा इव) जल के समान (नि जजास) नष्ट हो गया है ॥१॥"

भावार्थ :

टिप्पणी :१−(ददिः) सर्वधातुभ्य इन्। उ० ४।११८। इति दद दाने−इन्। दाता (हि) अवश्यम् (मह्यम्) मदर्थम् (वरुणः) वरणीयः परमेश्वरः (दिवः) व्यवहारस्य (कविः) मेधावी (वचोभिः) वेदवचनैः (उग्रैः) प्रचण्डैः (नि) नितराम् (रिणामि) री गतिरेषणयोः। नाशयामि (ते) त्वदीयम् (विषम्) आरोग्यनाशकं द्रव्यम् (खातम्) खन्−क्त। विदारितम् (अखातम्) अविदारितम् (उत) अपि (सक्तम्) षञ्ज सङ्गे−क्त। अभिनिविष्टम् (अग्रभम्) अहं गृहीतवान् (इरा) इण् गतौ−रक्। जलम् (इव) यथा (धन्वन्) कनिन् युवृषतक्षि०। उ० १।१५६। इति धन्व गतौ−कनिन्। धन्वनि। मरुदेशे (नि) (जजास) जसु हिंसायां ताडने च। नाशं प्राप (ते) (विषम्) ॥