Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 13 / 6

अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥ 6॥

Veda : Atharvaveda | Kand : 5 | Sukta : 13 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : गरुत्मान् | देवता : तक्षकः | छन्द : पथ्यापङ्क्तिः | स्वर :

विषय : दोषनिवारण के लिये उपदेश।

पदपाठ : अ॒सि॒तस्य॑ । तै॒मा॒तस्य॑ । ब॒भ्रो: । अप॑ऽउदकस्य । च॒ । सा॒त्रा॒ऽस॒हस्य॑ । अ॒हम् । म॒न्यो: । अव॑ । ज्याम्ऽइ॑व । धन्व॑न: । वि । मु॒ञ्चा॒मि॒ । रथा॑न्ऽइव ॥१३.६॥

पदार्थ : (असितस्य) काले वर्णवाले, (तैमातस्य) ओदे स्थान में रहनेवाले, (बभ्रोः) भूरे वर्णवाले, (अपोदकस्य) जल से बाहर रहनेवाले, (च) और (सात्रासहस्य) मिलकर रहनेवाली प्रजाओं के हरानेवाले [सर्प] के (मन्योः) क्रोध के (रथान् इव) रथों को जैसे, (धन्वनः) धनुष की (ज्याम् इव) डोरी को जैसे (अहम्) मैं (अव) अलग (वि मुञ्चामि) ढीला करता हूँ ॥६॥"

भावार्थ :

टिप्पणी :६−(असितस्य) शुक्लविरुद्धस्य कृष्णवर्णस्य (तैमातस्य) तिम क्लेदने−क+अत सातत्यगमने−अण्। इति तिमातः। ततो भवे अण्। तिमाते क्लेदने स्थाने भवस्य सर्पस्य (बभ्रो) पिङ्गलवर्णस्य (अपोदकस्य) अपगत उदकात् अपोदकः, तस्य। अपगतजलस्य (च) (सात्रासहस्य) सत्र सम्बन्धे सन्ततौ च−घञ्। सत्रं यज्ञः, अण्, टाप्। षह अभिभवे−पचाद्यच्। सात्रासां सम्बन्धे भवानां सहस्य अभिभावकस्य सर्पस्य (अहम्) (मन्योः) क्रोधस्य (अव) पृथग्भावे (ज्याम्) अ० १।१।३। ज्या जयतेर्वा जिनातेर्वा−निरु० ९।१७। जयशीलां मौर्वीम् (इव) यथा (धन्वनः) चापस्य (विमुञ्चामि) विमोचयामि। शिथिलीकरोमि (रथान् इव) रथान् यथा ॥