Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 18 / 1

नैतां ते॑ दे॒वा अ॑ददु॒स्तुभ्यं॑ नृपते॒ अत्त॑वे। मा ब्रा॑ह्म॒णस्य॑ राजन्य॒ गां जि॑घत्सो अना॒द्याम् ॥ 1॥

Veda : Atharvaveda | Kand : 5 | Sukta : 18 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : मयोभूः | देवता : ब्रह्मगवी | छन्द : अनुष्टुप् | स्वर :

विषय : वेदविद्या की रक्षा का उपदेश।

पदपाठ : न । ए॒ताम् । ते॒ । दे॒वा: । अ॒द॒दु॒: । तुभ्य॑म् । नृ॒ऽप॒ते॒ । अत्त॑वे । मा । ब्रा॒ह्म॒णस्य॑ । रा॒ज॒न्य॒ । गाम् । जि॒घ॒त्स॒:। अ॒ना॒द्याम् ॥१८.१॥

पदार्थ : (नृपते) हे नरपति राजन् ! (ते) तेरे (देवाः) दिव्य गुणवाले पुरुषों ने (तुभ्यम्) तुझे (एताम्) इस [वाणी] को (अत्तवे) नाश करने को (न) नहीं (अददुः) दिया है। (राजन्य) हे राजन् ! (ब्राह्मणस्य) वेदवेत्ता पुरुष की (गाम्) वाणी को, (अनाद्याम्) जो नष्ट नहीं हो सकती है, (मा जिघत्सः) मत नाशकर ॥१॥ "

भावार्थ :

टिप्पणी :१−(न) निषेधे (एताम्) गाम् (ते) तव। अनुदात्तोऽयम् (देवाः) दिव्यगुणाः पुरुषाः (अददुः) दत्तवन्तः (तुभ्यम्) (नृपते) हे मनुष्यरक्षक राजन् (अत्तवे) तुमर्थे सेसेनसे०। पा० ३।४।९। इति अद भक्षणे नाशने च−तवेन्। नाशयितुम् (मा) निषेधे (ब्राह्मणस्य) वेदज्ञस्य। आप्तपुरुषस्य (राजन्य) अ० ५।१७।९। हे ऐश्वर्यवन् (गाम्) गमेर्डोः। उ० २।६७। इति गम्लृ गतौ, यद्वा, गै गाने−डो। गच्छति जानाति यया गीयते वा सा गौः। गौः, वाङ्नाम−निघ० १।११। वाणीम् (जिघत्सः) अद−सन्, घस्लृ इत्यादेशे लेटि रूपम्। नाशय (अनाद्याम्) अद-ण्यत्। केनापि नाशयितुमशक्याम् आप्तवचनत्वात् ॥