Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 18 / 5

य ए॑नं॒ हन्ति॑ मृ॒दुं मन्य॑मानो देवपी॒युर्धन॑कामो॒ न चि॒त्तात्। सं तस्येन्द्रो॒ हृद॑ये॒ऽग्निमि॑न्ध उ॒भे ए॑नं द्विष्टो॒ नभ॑सी॒ चर॑न्तम् ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 18 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : मयोभूः | देवता : ब्रह्मगवी | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : वेदविद्या की रक्षा का उपदेश।

पदपाठ : य: । ए॒न॒म् । हन्ति॑ । मृ॒दुम् । मन्य॑मान: । दे॒व॒ऽपी॒यु: । धन॑ऽकाम:। न । चि॒त्तात् । सम् । तस्य॑ । इन्द्र॑: । हृद॑ये । अ॒ग्निम् । इ॒न्धे॒ । उ॒भे इति॑ । ए॒न॒म् । द्वि॒ष्ट॒: । नभ॑सी॒ इति॑ । चर॑न्तम् ॥१८.५॥

पदार्थ : (यः) जो (देवपीयुः) विद्वानों का हिंसक, (धनकामः) धन चाहनेवाला पुरुष (न चित्तात्) विना विचारे (एनम्) इस [ब्राह्मण] को (मृदुम्) कोमल (मन्यमानः) मानता हुआ (हन्ति) नाश करता है, (इन्द्रः) ऐश्वर्यवान् पुरुष [ब्राह्मण वा परमेश्वर] (तस्य) उसके (हृदये) हृदय में (अग्निम्) अग्नि (सम् इन्धे) जला देता है, (उभे) दोनों (नभसी) सूर्य और पृथिवी लोक, (चरन्तम्) विचरते हुए (एनम्) इस पुरुष से (द्विष्टः) द्वेष करते हैं ॥५॥"

भावार्थ :

टिप्पणी :५−(यः) नास्तिकः (एनम्) आस्तिकं ब्राह्मणम् (हन्ति) नाशयति (मृदुम्) प्रथिम्रदिभ्रस्जां०। उ० १।२८। इति म्रद मर्दने−कु, सम्प्रसारणं च। कोमलम् (मन्यमानः) जानन् सन् (देवपीयुः) अ० ४।३५।७। देवानां विदुषां हिंसकः (धनकामः) धनेच्छुः (न चित्तात्) अज्ञानात् (सम्) सम्यक् (तस्य) ब्रह्महिंसकस्य (इन्द्रः) ऐश्वर्यवान् ब्राह्मणः परमेश्वरो वा (हृदये) मनसि (अग्निम्) दाहम् (इन्धे) दीपयति (उभे) द्वे (एनम्) ब्रह्मद्विषम् (द्विष्टः) द्रुह्यतः (नभसी) नहेर्दिवि भश्च। उ० ४।२११। इति णह बन्धने−असुन्, हस्य भः। द्यावापृथिव्यौ−निघ० ३।३०। (चरन्तम्) विचरन्तम् ॥