Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 21 / 1

विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥ 1॥

Veda : Atharvaveda | Kand : 5 | Sukta : 21 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : ब्रह्मा | देवता : वानस्पत्यो दुन्दुभिः | छन्द : अनुष्टुप् | स्वर :

विषय : शत्रुओं को जीतने को उपदेश।

पदपाठ : विऽहृ॑दयम् । वै॒म॒न॒स्य । वद॑ । अ॒मित्रे॑षु । दु॒न्दु॒भे॒ । वि॒ऽद्वे॒षम् । कश्म॑शम् । भ॒यम् । अ॒मित्रे॑षु । नि । द॒ध्म॒सि॒। अव॑ । ए॒ना॒न् । दु॒न्दु॒भे॒ । ज॒हि॒ ॥२१.१॥

पदार्थ : (दुन्दुभे) हे दुन्दुभि वा ढोल ! (अमित्रेषु) वैरियों में (विहृदयम्) हृदय व्याकुल करने हारी (वैमनस्यम्) मन की ग्लानि (वद) कह दे। (विद्वेषम्) फूट, (कश्मशम्) गति की रोक और (भयम्) भय (अमित्रेषु) वैरियों के बीच (निदध्मसि) हम डाले देते हैं। (दुन्दुभे) हे दुन्दुभि ! (एनान्) इन [शत्रुओं] को (अव जहि) निकाल दे ॥१॥"

भावार्थ :

टिप्पणी :१−(विहृदयम्) वि विकृतं हृदयं यस्मात् तत् (वैमनस्यम्) विमनसो भावः−ष्यञ्। मनोग्लानिम् (वद) ज्ञापय (अमित्रेषु) अ० १।१९।२। पीडकेषु शत्रुषु (दुन्दुभे) सू० २० म० १। हे बृहड्ढक्के (विद्वेषम्) वैरिभावम् (कश्मशम्) कश गतिशासनयोः−क्विप्+मष हिंसायाम्−घञर्थे क, षस्य शः। कशः गतेः प्रवृत्तेर्मशं नाशम् (भयम्) दरम् (निदध्मसि) निरंतरं धारयामः (अव) दूरे (एनान्) शत्रून् (जहि) हन हिंसागत्योः। गमय ॥