Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 22 / 10

यत्त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः। भी॒मास्ते॑ तक्मन्हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥ 10॥

Veda : Atharvaveda | Kand : 5 | Sukta : 22 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : तक्मनाशनः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग नाश करने का उपदेश।

पदपाठ : यत् । त्वम् । शी॒त: । अथो॒ इति॑ । रू॒र: । स॒ह । का॒सा । अवे॑पय: । भी॒मा: । ते॒ । त॒क्म॒न् । हे॒तय॑: । ताभि॑: । स्म॒ । परि॑ । वृ॒ङ्गि॒ध । न॒: ॥२२.१०॥

पदार्थ : (यत्) जिस कारण (शीतः) शीत (अथो) और (रूरः) क्रूर (त्वम्) तूने (कासा=कासेन) (सह) खाँसी के साथ [हमें] (अवेपयः) कँपा दिया है। (तक्मन्) हे दुःखित जीवन करनेवाले ज्वर ! (ते) तेरी (हेतयः) चोटें (भीमाः) भयानक हैं, (ताभिः) उनसे (नः) हमको (स्म) अवश्य (परि वृङ्ग्धि) छोड़ दे ॥१०॥"

भावार्थ :

टिप्पणी :१०−(यत्) यस्मात् कारणात् (त्वम्) (शीतः) अ० १।२५।४। शीतलः (अथो) अपि च (रूरः) अ० १।२५।४। रुङ् वधे−रक्, दीर्घः। पीडकः (सह) सहितः (कासा) अ० १।१२।३। विभक्तेराकारः। कासेन। रोगविशेषेण (अवेपयः) टुवेपृ कम्पने णिच्−लङ्। कम्पितवानसि (भीमाः) करालाः (ते) तव (तक्मन्) हे ज्वर (हेतयः) हननशक्तयः (ताभिः) हेतिभिः (स्म) अवश्यम् (परि) (वृङ्ग्धि) वृजी वर्जने। परित्यज (नः) अस्मान् ॥