Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 27 / 1

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥ 1॥

Veda : Atharvaveda | Kand : 5 | Sukta : 27 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : ब्रह्मा | देवता : इळा, सरस्वती, भारती | छन्द : बृहतीगर्भा त्रिष्टुप् | स्वर :

विषय : पुरुषार्थ का उपदेश।

पदपाठ : ऊ॒र्ध्वा: । अ॒स्य॒ । स॒म्ऽइध॑: । भ॒व॒न्ति॒ । ऊ॒र्ध्वा । शु॒क्रा । शो॒चीषि॑ । अ॒ग्ने: । द्यु॒मत्ऽत॑मा । सु॒ऽप्रती॑क: । सऽसू॑नु: । तनू॒ऽनपा॑त् । असु॑र: । भूरि॑ऽपाणि: ॥२७.१॥

पदार्थ : (अस्य) उस (अग्नेः) विद्वान् पुरुष की (समिधः) विद्या आदि प्रकाश क्रियायें (ऊर्ध्वाः) ऊँची, और (शुक्रा) अनेक वीर कर्म और (शोचींषि) तेज (ऊर्ध्वा) ऊँचे (भवन्ति) होते हैं [जो विद्वान्] (द्युमत्तमा) अतिशय प्रकाशवाला, (सुप्रतीकः) बड़ी प्रतीतिवाला (ससूनुः) प्रेरक अर्थात् प्रधान पुरुषों के साथ वर्त्तमान (तनूनपात्) विस्तृत पदार्थों का न गिरानेवाला (असुरः) बड़ी बुद्धिवाला, और (भूरिपाणिः) बहुत व्यवहारों में हाथ रखनेवाला होता है ॥१॥"

भावार्थ :

टिप्पणी :१−(ऊर्ध्वाः) उन्नताः (अस्य) प्रसिद्धस्य (समिधः) विद्यादिप्रकाशक्रियाः (भवन्ति) (ऊर्ध्वा) उन्नतानि (शुक्रा) अ० २।११।५। शुक्राणि वीर्याणि (शोचींषि) अ० १।१२।२। तेजांसि (अग्नेः) विदुषः पुरुषस्य (द्युमत्तमा) दिव्−मतुप्, तमप्। विभक्तेराकारः। द्युमत्तमः। अतिशयेन प्रकाशवान् (सुप्रतीकः) अ० ४।२१।६। शोभनप्रतीतिवान् (ससूनुः) सुवः कित्। उ० ३।३५। इति षू प्रेरणे−नु। सवितृभिः प्रेरकैः प्रधानैः सह वर्तमानः (तनूनपात्) अ० ५।१२।२। तनूनां विस्तृतानां पदार्थानां न पातयिता (असुरः) अ० १।१०।१। असुरत्वं प्रज्ञावत्त्वम्−निरु० १०।३४। प्रशस्यप्रज्ञावान् (भूरिपाणिः) भूरिषु व्यवहारेषु पाणिर्हस्तो यस्य सः। बहुव्यवहारकुशलः ॥