Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 28 / 5

भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑। वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 28 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अथर्वा | देवता : अग्न्यादयः | छन्द : त्रिष्टुप् | स्वर :

विषय : रक्षा और ऐश्वर्य का उपदेश।

पदपाठ : भूमि॑: । त्वा॒ । पा॒तु॒। हरि॑तेन । वि॒श्व॒ऽभृत् । अ॒ग्नि: । पि॒प॒र्तु॒ । अय॑सा । स॒ऽजोषा॑: । वी॒रुत्ऽभि॑: । ते॒ । अर्जु॑नम् । स॒म्ऽवि॒दा॒नम् । दक्ष॑म् । द॒धा॒तु । सु॒ऽम॒न॒स्यमान॑म् ॥२८.५॥

पदार्थ : (विश्वभृत्) सबको धारण करनेवाली (भूमिः) भूमि (हरितेन) दरिद्रता हरनेवाले पुरुषार्थ से (त्वा) तुझे (पातु) पाले, (सजोषाः) प्रीतियुक्त (अग्निः) अग्नि (अयसा) प्राप्तियोग्य कर्म से (पिपर्तु) पूर्ण करे। (वीरुद्भिः) उगती हुई लता रूप प्रजाओं से (संविदानम्) मिला हुआ (ते) तेरा (अर्जुनम्) अर्थसंग्रह (सुमनस्यमानम्) मन का शुभ करनेवाला (दक्षम्) बल (दधातु) दान करे ॥५॥"

भावार्थ :

टिप्पणी :५−(भूमिः) भूमिव्यापार इत्यर्थः (त्वा) त्वां मनुष्यम् (पातु) रक्षतु (हरितेन) म० १। दारिद्र्यहारकेण पुरुषार्थेन (विश्वभृत्) सर्वस्य धारिका (अग्निः) शारीरिकबाह्याग्निः (पिपर्तु) पॄ पालनपूरणयोः। पूरयतु (अयसा) म० १। प्राप्येन कर्मणा (सजोषाः) सप्रीतिः (वीरुद्भिः) अ० १।३२।१। विरोहणशीलाभिर्लतारूपाभिः प्रजाभिः (ते) तव (अर्जुनम्) अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज सम्पादने णिचि−उनन्। अर्थसंग्रहः (सं विदानम्) अ० २।२८।२। संगच्छमानम् (दधातु) ददातु (सुमनस्यमानम्) अ० १।३५।१। मनसः शुभकरम् ॥