Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 30 / 9

अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥ 9॥

Veda : Atharvaveda | Kand : 5 | Sukta : 30 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : चातनः | देवता : आयुः | छन्द : भुरिगनुष्टुप् | स्वर :

विषय : आत्मा के उन्नति का उपदेश।

पदपाठ : अ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥

पदार्थ : (ते) तेरी (अङ्गभेदः) हड़फूटन, (अङ्गज्वरः) शरीर का ज्वर, (च) और (यः) जो (हृदयामयः) हृदय का रोग है वह और (यक्ष्मः) राजरोग, (वाचा) वेदवाणी से (साढः) हारा हुआ [वह सब रोग] (श्येनः इव) श्येन पक्षी के समान (परस्तराम्) बहुत दूर (प्र अपप्तत्) भाग गया है ॥९॥"

भावार्थ :

टिप्पणी :९−(अङ्गभेदः) शरीरावयवविकारः (अङ्गज्वरः) सर्वाङ्गतापः (यः) (च) (ते) तव (हृदयामयः) वृह्रोः षुग्दुकौ च। उ० ४।१००। इति हृञ् हरणे−कयन्, दुगागमः। इति हृदयम्। वलिमलितनिभ्यः कयन्। उ० ४।९९। इति अम पीडने चुरा०−कयन्। इति आमयो रोगः। मनोरोगः (यक्ष्मः) राजरोगः (श्येनः) शीघ्रगामी पक्षिविशेषः (इव) यथा) (प्र) (अपप्तत्) पत्लृ गतौ लुङि लृदित्वात् च्लेरङादेशः। पतः पुम्। पा० ७।१।१९। इति पुमागमः। प्रागमत् (वाचा) वेदवाण्या (साढः) षह−क्त। अभिभूतः (परस्तराम्) दूरतराम् ॥