Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 35 / 3

वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्व᳡र्यमत् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 35 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : कौशिक | देवता : वैश्वानरः | छन्द : गायत्री | स्वर :

विषय : यश की प्राप्ति का उपदेश।

पदपाठ : वै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥

पदार्थ : (वैश्वानरः) सब नरों का नायक परमेश्वर (अङ्गिरसाम्) ज्ञानी महर्षियों के (स्तोमम्) स्तुति-योग्य कर्म (च) और (उक्थम्) प्रकथनीय गुण को (चक्लृपत्) समर्थ करे। (एषु) इन [महर्षियों] में (द्युम्नम्) प्रकाशमान यश वा अन्न और (स्वः) अच्छे प्रकार प्राप्तियोग्य सुख (आ) सब ओर से (यमत्) स्थिर रहे ॥३॥"

भावार्थ :

टिप्पणी :३−(वैश्वानरः) सर्वनरहितः (अङ्गिरसाम्) अ० २।५।२। ज्ञानिनां महर्षीणाम् (स्तोमम्) स्तुत्यं कर्म (उक्थम्) प्रकथनीयं गुणम् (च) (चक्लृपत्) कृपू सामर्थ्ये−लेट्। छान्दसं द्वित्वम्। कल्पयेत्। समर्थं कुर्य्यात् (एषु) अङ्गिरःसु (द्युम्नम्) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। इति द्युत दीप्तौ−न कित्, तकारस्य मकारः। यद्वा, द्यु अभिगमने−न, मगागमः। द्युम्नं द्योततेर्यशो वान्नं वा−निरु० ५।५। द्योतमानं यशः। अन्नम् (स्वः) सुष्ठु अरणीयं प्राप्तव्यं सुखम् (यमत्) यमु उपरमे−लेट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इकारलोपः। उपरमेत्। तिष्ठेत् ॥