Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 37 / 1

उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्। श॒प्तार॑मन्वि॒च्छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 37 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : चन्द्रमाः | छन्द : अनुष्टुप् | स्वर :

विषय : कुवचन के त्याग का उपदेश।

पदपाठ : उप॑ । प्र । अ॒गा॒त् । स॒ह॒स्र॒ऽअ॒क्ष: । यु॒क्त्वा । श॒पथ॑: । रथ॑म् । श॒प्तार॑म् । अ॒नु॒ऽइ॒च्छन् । मम॑ । वृक॑:ऽइव । अवि॑ऽमत: । गृ॒हम् ॥३७.१॥

पदार्थ : (सहस्राक्षः) सहस्रों व्यवहार में दृष्टिवाला (शपथः) शान्तिपथ बतानेवाला (रथम्) रथ को (युक्त्वा) जीत कर (मम) मेरे (शप्तारम्) कुवचन बोलनेवाले को (अन्विच्छन्) ढूँढता हुआ (उप) समीप (प्र अगात्) आया है, (इव) जैसे (वृकः) भेड़िया (अविमतः) भेड़वाले के (गृहम्) घर में [आता है] ॥१॥"

भावार्थ :

टिप्पणी :१−(उप) समीपे (प्र) प्रकर्षेण (अगात्) आगतवान् (सहस्राक्षः) अ० ३।११।३। सहस्रेषु व्यवहारेषु अक्षि दृष्टिर्यस्य सः। बहुदर्शी (युक्त्वा) संयोज्य (शपथः) अ० २।७।२। शम् शान्तिकरणे−ड+पथ गतौ−अच्। शस्य मङ्गलस्य पथो यस्मात् सः। शान्तिमार्गदर्शकः (रथम्) यानम् (शप्तारम्) शापकारिणम्। कुवचनभाषिणम् (अन्विच्छन्) अनुसृत्य गच्छन् (मम) (वृकः) हिंस्रजन्तुविशेषः (इव) यथा (अविमतः) अवीनां मेषाणां स्वामिनः पुरुषस्य (गृहम्) गेहम् ॥