Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 44 / 1

अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 44 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : विश्वामित्र | देवता : वनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग के नाश के लिये उपदेश।

पदपाठ : अस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् अस्थु॑: । वृ॒क्षा: । ऊ॒र्ध्वऽस्व॑प्ना: । तिष्ठा॑त् । रोग॑: । अ॒यम् । तव॑ ॥४४.१॥

पदार्थ : (द्यौः) सूर्य लोक (अस्थात्) ठहरा है, (पृथिवी) पृथिवी (अस्थात्) ठहरी है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (अस्थात्) ठहरा है। (ऊर्ध्वस्वप्नाः) ऊपर को मुख करके सोनेवाले (वृक्षाः) वृक्ष (अस्थुः) ठहरे हुए हैं, [ऐसे ही] (तव) तेरा (अयम्) यह (रोगः) रोग (तिष्ठात्) ठहर जावे [और न बढ़े] ॥१॥"

भावार्थ :

टिप्पणी :१−(अस्थात्) स्थिरोऽभूत् (द्यौः) प्रकाशमानः सूर्यः (अस्थात्) (पृथिवी) विस्तृता भूमिः (अस्थात्) (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (अस्थुः) स्थिता अभूवन् (वृक्षाः) पादपाः (ऊर्ध्वस्वप्नाः) उपरिमुखाः सन्तो निद्रालवः (तिष्ठात्) गतिनिवृत्तो भूयात् (रोगः) शारीरिको मानसिको वा व्याधिः (अयम् तव) ॥