Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 60 / 2

अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्व᳡र्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 60 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : अर्यमा | छन्द : अनुष्टुप् | स्वर :

विषय : गृहस्थ आश्रम में प्रवेश का उपदेश।

पदपाठ : अश्र॑मत् । इ॒यम् । अ॒र्य॒म॒न् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॒म॒न् । अ॒स्या: । अ॒न्या: । सम॑नम् । आ॒ऽअय॑ति ॥६०.२॥

पदार्थ : (अर्यमन्) हे शत्रुनाशक परमेश्वर ! (अन्यासाम्) दूसरी कन्याओं के (समनम्) विवाह में (यती) जाती हुई (इयम्) इस कन्या ने (अश्रमत्) तप किया है। (अङ्गो) हे (अर्यमन्) न्यायकारी परमेश्वर ! (अन्याः) दूसरी कन्यायें (अस्याः) इस कन्या के (समनम्) विवाह में (नु) अवश्य (आयति) आवें ॥२॥"

भावार्थ :

टिप्पणी :२−(अश्रमत्) श्रमु तपसि खेदे च। अतपत् तपश्चर्य्यो कृतवती (इयम्) पुरोवर्तिनी (अर्यमन्) हे न्यायकारिन् परमेश्वर (अन्यासाम्) कन्यानाम् (समनम्) सम्+अन प्राणने−अच्। यद्वा। स+मनु ज्ञाने−अच्। समनाः समनसः। समनं समननाद्वा सम्माननाद्वा−निरु० ७।१७। समनं संग्रामनाम−निघ० २।१७। विवाहोत्सवम्। संग्रामम् (यती) गच्छन्ती (अङ्गो) आभिमुख्यकरणे (नु) क्षिप्रम् (अर्यमन्) (अस्याः) कन्यायाः (अन्याः) कन्याः (समनम्) (आयति) अय गतौ, एकवचनं छान्दसम्। आयन्ति। आगच्छन्ति ॥