Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 64 / 1

सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्। दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 64 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : विश्वे देवाः, मनः | छन्द : अनुष्टुप् | स्वर :

विषय : संगति के लाभ का उपदेश।

पदपाठ : सम् । जा॒नी॒ध्व॒म् । सम् । पृ॒च्य॒ध्व॒म् । सम् । व॒: । मनां॑सि । जा॒न॒ता॒म् । दे॒वा: । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒ना: । उ॒प॒ऽआस॑ते ॥६४.१॥

पदार्थ : (सम् जानीध्वम्) आपस में जान पहिचान करो, (सम् पृच्यध्वम्) आपस में मिले रहो, (जानताम् वः) ज्ञानवाले तुम लोगों के (मनांसि) मन (सम्) एकसे होवें [अथवा−(वः) तुम्हारे (मनांसि) मन (सम्) एकसे (जानताम्) होवें]। (यथा) जैसे (पूर्वे) प्रथम स्थानवाले, (संजानानाः) यथावत् ज्ञानी (देवाः) विद्वान् लोग (भागम्) सेवनीय परमेश्वर अथवा ऐश्वर्यों के समूह को (उपासते) सेवन करते हैं ॥१॥"

भावार्थ :

टिप्पणी :१−(सम् जानीध्वम्) संप्रतिभ्यामनाध्याने। पा० १।३।४६। इत्यात्मनेपदत्वम्। समानज्ञानयुक्ता भवत (सम् पृच्यध्वम्) पृची सम्पर्के। संपृक्ताः संसृष्टकार्य्या भवत (सम्) समानानि (वः) युष्माकम् (मनांसि) अन्तःकरणानि (जानताम्) ज्ञा अवबोधने−शतृ। ज्ञानवताम्, अथवा। अकर्मकाच्च। पा० १।३।४५। इत्यात्मनेपदम्। लोटि रूपम्। प्रवर्तन्ताम् (देवाः) विद्वांसः (भागम्) भज सेवायाम्−घञ्। भजनीयमीश्वरम्, अथवा, भग−अण्। भगानामैश्वर्य्याणां समूहम् (यथा) येन प्रकारेण (पूर्वे) प्रथमस्थाने वर्तमानाः श्रेष्ठाः (संजानानाः) सम्+शानच् सम्यग् ज्ञानवन्तः (उपासते) सेवन्ते ॥