Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 66 / 2

आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 66 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : चन्द्रः, इन्द्रः | छन्द : अनुष्टुप् | स्वर :

विषय : सेनापति के लक्षणों का उपदेश।

पदपाठ : आ॒ऽत॒न्वा॒ना: । आ॒ऽयच्छ॑न्त: । अस्य॑न्त: । ये । च॒ । धाव॑थ । नि:ऽह॑स्ता: । श॒त्र॒व॒: । स्थ॒न॒ । इन्द्र॑: । व॒: । अ॒द्य । परा॑ । अ॒श॒री॒त् ॥६६.२॥

पदार्थ : (ये) जो तुम (आतन्वानाः) [धनुष बाण] तानते हुए (च) और (आयच्छन्तः) [तलवारें] खैंचते हुए और (अस्यन्तः) चलाते हुए (धावथ) दौड़े चले आते हो। (शत्रवः) हे शत्रुओ ! तुम सब (निर्हस्ताः) निहत्थे (स्थन) हो जाओ, (इन्द्रः) महाप्रतापी सेनापति इन्द्र ने (वः) तुम को (अद्य) आज (परा अशरीत्) मार गिराया है ॥२॥"

भावार्थ :

टिप्पणी :२−(आतन्वानाः) धनूंषि बाणान् च अनुसंदधतः (आयच्छन्तः) तरवारीन् आकर्षन्तः (अस्यन्तः) निक्षिपन्तः (ये) शत्रवः (च) (धावथ) शीघ्रं गच्छथ (निर्हस्ताः) लुप्तहस्तबलाः (शत्रवः) अरयः (स्थन) तप्तनप्तनथनाश्च। पा० ७।१।४५। इति अस्तेर्लोटि तस्य थनादेशः। भवत (इन्द्रः) सेनापतिः (वः) युष्मान् (अद्य) अस्मिन् दिने (परा अशरीत्) शॄ हिंसायाम्−लुङ्। पराहतान् कृतवान् ॥