Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 71 / 3

यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 71 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : ब्रह्मा | देवता : विश्वे देवाः | छन्द : त्रिष्टुप् | स्वर :

विषय : दोषों के नाश का उपदेश।

पदपाठ : यत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥

पदार्थ : (देवाः) हे विद्वान् पुरुषो ! (यत्) जो कुछ (अन्नम्) अन्न (अनृतेन) असत्य व्यवहार से (अद्मि) मैं खाता हूँ, (उत) और (दास्यन्) देना चाहता हुआ [अथवा] (अदास्यन्) न देना चाहता हुआ मैं [जो कुछ] (संगृणामि=संगिरामि) खा जाता हूँ। (महतः) पूजनीय (वैश्वानरस्य) सब नरों के हितकारी परमेश्वर की (महिम्ना) महिमा से (अन्नम्) वह अन्न (मह्यम्) मेरे लिये (शिवम्) सुखकारक और (मधुमत्) मीठे रसवाला (अस्तु) होवे ॥३॥"

भावार्थ :

टिप्पणी :३−(यत्) (अन्नम्) (अद्मि) भक्षयामि (अनृतेन) असत्यव्यवहारेण (देवाः) हे विद्वांसः (दास्यन्) लृटः सद्वा। पा० ३।३।१४। इति दास्यतेः−शतृ। दातुमिच्छन् (अदास्यन्) अदातुमिच्छन् (उत) अपि च (संगृणामि) गॄ निगरणे, छान्दसः श्ना। संगिरामि। भक्षयामि (वैश्वानरस्य) सर्वनरहितस्य परमेश्वरस्य (महतः) पूजनीयस्य (महिम्ना) प्रतापेन (शिवम्) सुखकरम् (मह्यम्) मदर्थम् (मधुमत्) माधुर्य्योपेतम् (अस्तु) भवतु (अन्नम्) भोजनम् ॥