Atharvaveda / 6 / 72 / 3
याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥ 3॥
Veda : Atharvaveda | Kand : 6 | Sukta : 72 | Paryay : | Mantra No : 3
In English:
Seer : atharvaa~Ngiraa | Devta : shepo.arkaH | Metre : bhuriganuShTup | Tone :
Subject : English Translation will be uploaded as and when ready.
Verse : yaavada~Ngiina.m paarasvata.m haastina.m gaardabha.m cha yat. yaavadashvasya vaajinastaavatte vardhataa.m pasaH . 3.
Component Words : yaavat.aa~Ngiinam . paarasvatam . haastinam . gaardabham . cha . yat . yaavat . ashvasya . vaajinaH . taavat . te . vardhataam . pasaH .72.3.
In Hindi:
ऋषि : अथर्वाङ्गिरा | देवता : शेपोऽर्कः | छन्द : भुरिगनुष्टुप् | स्वर :
विषय : राज्य बढ़ाने का उपदेश।
पदपाठ : या॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥
पदार्थ : (यावदङ्गीनम्) जितने अङ्ग हैं उनसे सिद्ध, (पारस्वतम्) पालनसमर्थ पुरुषों से सिद्ध, (च) और (गार्दभम्) [बोझ उठानेवाले] गदहों से सिद्ध, (यत्) जितना राज्य है। और (यावत्) जितना (वाजिनः) अन्नयुक्त (अश्वस्य) बलवान् पुरुष [राज्य] का है, (तावत्) उतना (ते) तेरा (पसः) राज्य (वर्धताम्) बढ़े ॥३॥"
भावार्थ : टिप्पणी :३−(यावदङ्गीनम्) तेन निर्वृत्तम्। ४।२।६८। इति−ख। यावन्ति अङ्गानि तावद्भिर्निर्वृत्तं सिद्धम्, तानि यथा। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः। इत्यमरः, १८।१७, १८। (पारस्वतम्) परस्वत्−अण्। परस्वद्भिः पालनसमर्थैः पुरुषैर्निर्वृत्तम् (हास्तिनम्) हस्तिन्−अण्। इनण्यनपत्ये। पा० ६।४।१६४। इति प्रकृतिभावः हस्तिभिर्निर्वृत्तं सिद्धम् (गार्दभम्) गर्दभ−अण्। गर्दभैर्वहनशीलैः पशुभिर्निर्वृत्तम् (च) (यत्) यत्प्रमाणम् (यावत्) (अश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। इति अशू व्याप्तिसंहत्योः−क्वन्। अश्नुते व्याप्नोति कार्याणि सोऽश्वः, बलवान् पुरुषः, तस्य (वाजिनः) वाजः, अन्नम्−निघ० २।७। अन्नवतः। अन्यत्पूर्ववत् ॥