Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 74 / 3

यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 74 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : सामंनस्यम्, नाना देवताः, त्रिणामा | छन्द : त्रिष्टुप् | स्वर :

विषय : एकमता के लिये उपदेश।

पदपाठ : यथा॑ । आ॒दि॒त्या: । वसु॑ऽभि: । स॒म्ऽब॒भू॒वु: । म॒रुत्ऽभि॑: । उ॒ग्रा: । अहृ॑णीयमाना: । ए॒व । त्रि॒ऽना॒म॒न् । अहृ॑णीयमान: । इ॒मान् । जना॑न् । सम्ऽम॑नस: । कृ॒धि॒ । इ॒ह ॥७४.३॥

पदार्थ : (यथा) जिस प्रकार से (उग्राः) तेजस्वी (आदित्याः) प्रकाशमान विद्वान् [अथवा अदीन देव माता अदिति, पृथ्वी वा वेदवाणी के पुत्र समान मान करनेवाले] पुरुष (अहृणीयमानाः) सङ्कोच न करते हुए (वसुभिः) उत्तम गुणों और (मरुद्भिः) शत्रुनाशक वीरों के साथ (संबभूवुः) पराक्रमी हुए हैं। (एव) वैसे ही (त्रिणामन्) हे तीनों कालों और तीनों लोकों को झुकानेवाले परमेश्वर ! (अहृणीयमानः) क्रोध न करता हुआ तू (इमानि) इन सब (जनान्) जनों को (इह) यहाँ पर (संमनसः) एकमन (कृधि) कर दे ॥३॥"

भावार्थ :

टिप्पणी :३−(यथा) येन प्रकारेण (आदित्याः) अ० १।९।१। आङ्+ दीपी दीप्तौ−यक्। यद्वा। अदिति−ण्य। प्रकाशमाना विद्वांसः। यद्वा। अदितेः अदीनाया देवमातुः पृथिव्या वेदवाण्या वा पुत्रवद्मानकर्तारः (वसुभिः) श्रेष्ठगुणैः (संबभूवुः) सम्+भू सामर्थ्ये। पराक्रमिणो बभूवुः (मरुद्भिः) अ० १।२०।१। शत्रुमारकैः शूरैः (उग्राः) तेजस्विनः (अहृणीयमानाः) अ० १।३५।४। हृणीङ् रोषणे लज्जायां च−शानच्। असंकुचन्तः (एव) एवम्। तथा (त्रिणामन्) हे त्रयाणां लोकानां कालानां वा नामयितो वशयितः परमेश्वर (अहृणीयमानः) अक्रुध्यस्त्वम् (इमान्) अस्मदीयान् (संमनसः) समानमनस्कान्। परस्परानुरक्तचित्तान् (कृधि) कुरु (इह) अस्मिन् ग्रामनगरादौ ॥