Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 78 / 3

त्वष्टा॑ जा॒याम॑जनय॒त्त्वष्टा॑स्यै॒ त्वां पति॑म्। त्वष्टा॑ स॒हस्र॒मायुं॑षि दी॒र्घमायुः॑ कृणोतु वाम् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 78 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : त्वष्टा | छन्द : अनुष्टुप् | स्वर :

विषय : गृहस्थ के धर्म का उपदेश।

पदपाठ : त्वष्टा॑ । जा॒याम् । अ॒ज॒न॒य॒त् । त्वष्टा॑ । अ॒स्यै॒ । त्वाम् । पति॑म् । त्वष्टा॑ । स॒हस्र॑म् । आयूं॑षि । दी॒र्घम् । आयु॑: । कृ॒णो॒तु॒ । वा॒म् ॥७८.३॥

पदार्थ : (त्वष्टा) विश्वकर्मा परमेश्वर ने [तेरे हित के लिये] (जायाम्) वीरों को उत्पन्न करनेवाली पत्नी को, और (त्वष्टा) विश्वकर्मा ने (अस्यै) इस पत्नी के लिये (त्वाम्) तुझे (पतिम्) पति (अजनयत्) उत्पन्न किया है। (त्वष्टा) वही विश्वकर्मा (सहस्रम्=सहस्राणि) बल देनेवाले (आयूंषि) जीवनसाधन और (दीर्घम्) दीर्घ (आयुः) आयु (वाम्) तुम दोनों के लिये (कृणोतु) करे ॥३॥"

भावार्थ :

टिप्पणी :३−(त्वष्टा) अ० २।५।६। विश्वकर्मा परमेश्वरः। तुभ्यमिति शेषः (जायाम्) म० १। वीरजननीं वधूम् (अजनयत्) उदपादयत् (त्वष्टा) (अस्यै) वधूहिताय (त्वाम्) विद्वांसम् (पतिम्) भर्तारम् (त्वष्टा) (सहस्रम्) सहो बलनाम−निघ० २।९। सहः+रा दाने−क, बहुवचनस्यैकवचनम्। सहस्राणि। बलप्रदानि (आयूंषि) प्राप्याणि जीवनसाधनानि (दीर्घम्) चिरम्। कीर्तियुक्तम् (आयुः) जीवनम् (कृणोतु) करोतु (वाम्) युवाभ्यां स्त्रीपुरुषाभ्याम् ॥