Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 82 / 1

आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः। इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 82 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : भग | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर :

विषय : विवाह संस्कार का उपदेशः।

पदपाठ : आ॒ऽगच्छ॑त: । आऽग॑तस्य । नाम॑ । गृ॒ह्णा॒मि॒ । आ॒ऽय॒त: । इन्द्र॑स्य । वृ॒त्र॒ऽघ्न: । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो:॥८२.१॥

पदार्थ : (आयतः) अति यत्नशाली वा नियमवान् मैं (आगच्छतः) आते हुए और (आगतस्य) आये हुए पुरुष का (नाम) नाम [कीर्ति] (गृह्णामि) स्वीकार करता हूँ। (वृत्रघ्नः) अन्धकारनाशक, (वासवस्य) बहुत धनवाले और (शतक्रतोः) सैकड़ों कर्मोंवाले (इन्द्रस्य) संपूर्ण ऐश्वर्य्यवाले परमात्मा की (वन्वे) में प्रार्थना करता हूँ ॥१॥"

भावार्थ :

टिप्पणी :१−(आगच्छतः) इदानीं वर्तमानस्य (आगतस्य) भूतकाले प्राप्तस्य पुरुषस्य (नाम) कीर्तनम् (गृह्णामि) स्वीकरोमि (आयतः) (आङ्+यती) प्रयत्ने−अच्, यद्वा। आङ्+यम नियमने−क्त। अतिप्रयत्नशाली। प्रशस्तनियमवान् (इन्द्रस्य) परमैश्वर्यवतः परमेश्वरस्य (वृत्रघ्नः) अन्धकारनाशस्य (वन्वे) वनु याचने। अहं याचे (वासवस्य) वसु−अण्। वसु धनम्−निघ० २।१०। वसूनि धनानि सन्ति यस्य तस्य (शतक्रतोः) क्रतुः कर्म−निघ० २।१। बहुकर्मयुक्तस्य ॥