Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 85 / 1

व॑र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑। यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 85 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : वनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग के नाश के लिये उपदेश।

पदपाठ : व॒र॒ण: । वा॒र॒या॒तै॒ । अ॒यम् । दे॒व:। वन॒स्पति॑: । यक्ष्म॑: । य: । अ॒स्मिन् । आऽवि॑ष्ट: । तम् । ऊं॒ इति॑ । दे॒वा: । अ॒वी॒व॒र॒न् ॥८५.१॥

पदार्थ : (अयम्) यह (देव) दिव्य गुणवाला, (वनस्पतिः) सेवनीय गुणों का रक्षक (वरणः) स्वीकार करने योग्य [वैद्य अथवा वरणा अर्थात् वरुणवृक्ष] [राजरोग आदि को] (वारयातै) हटावे। (यः) जो (यक्ष्मः) राजरोग (अस्मिन्) इस पुरुष में (आविष्टः) प्रवेश कर गया है (तम्) उसको (उ) निश्चय करके (देवाः) व्यवहार जाननेवाले विद्वानों ने (अवीवरन्) हटाया है ॥१॥"

भावार्थ :

टिप्पणी :१−(वरणः) सुयुरुवृञ युच्। उ० २।७४। इति वृञ्−वरणे=स्वीकरणे−युच्। स्वीकरणीयः। वैद्यो वरुणवृक्षो वा। वरुणस्य गुणाः। कटुत्वम् उष्णत्वम्, रक्तदोषशीतवातहरत्वम्, स्निग्धत्वम्, दीपनत्वम्−इति शब्दकल्पद्रुमात् (वारयातै) अ० ४।७।१। वारयातेर्लेटि आडागमः। वैतोऽन्यत्र। पा० ३।४।९६। इति ऐकारः। वारयतु। निवर्तयतु (अयम्) प्रसिद्धः। (देवः) दिव्यः (वनस्पतिः) अ० १।३५।३। वन सेवने−अच्। वन+पतिः, सुट् च। सेवनीयगुणानां रक्षकः (यक्ष्मः) अ० २।१०।५। राजरोगः क्षयः (यः) (अस्मिन्) पुरुषे (आविष्टः) प्रविष्टः (तम्) यक्ष्मम् (उ) एव (देवाः) व्यवहारकुशला विद्वांसः (अवीवरन्) वारयतेर्लुङ् चङि रूपम्। निवारितवन्तः ॥