Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 90 / 1

यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च। इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 90 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : रुद्रः | छन्द : अनुष्टुप् | स्वर :

विषय : कर्म के फल का उपदेश।

पदपाठ : याम् । ते॒ । रु॒द्र: । इषु॑म् । आस्य॑त् । अङ्गे॑भ्य: । हृद॑याय: । च॒ । इ॒दम् । ताम् । अ॒द्य । त्वत् । व॒यम् । विषू॑चीम् । वि । वृ॒हा॒म॒सि॒ ॥९०.१॥

पदार्थ : [हे मनुष्य !] (रुद्रः) पापियों के रुलानेवाले परमेश्वर ने (ते) तेरे (अङ्गेभ्यः) अङ्गों [शरीर] को पीड़ा देने (च) और (हृदयाय) हृदय [आत्मा] दुखाने के लिये (याम्) जिस (इषुम्) बरछी [पीड़ा] को (आस्यत्) छोड़ा है। (इदम्) सो (अद्य) अब (विषूचीम्) नाना गतिवाली (ताम्) उस [बरछी] को (वयम्) हम लोग (त्वत्) तुझ से (वि वृहामसि=०−मः) उखाड़ते हैं ॥१॥"

भावार्थ :

टिप्पणी :१−(याम्) (ते) तव (रुद्रः) अ० १।१९।३। पापिनां रोदयिता (इषुम्) अ० १।१३।४। शक्तिनामायुधम्। पीडाम् (आस्यत्) असु क्षेपणे−लङ्। अक्षिपत् (अङ्गेभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। अङ्गानि पीडयितुम्। (हृदयाय) हृदयं दुःखयितुम् (च) (इदम्) तत्प्रतीकारार्थम् (ताम्) इषुम् (अद्य) इदानीम् (त्वत्) त्वत्तः (वयम्) सुकर्मिणः (विषूचीम्) अ० १।१९।१। विषु+अञ्चु गतिपूजनयोः−क्विन्। ङीप्। नानागतिम् (वि वृहामसि) वृहू उद्यमने। विवृहामः। उत्क्षिपामः ॥