Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 96 / 2

मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्या᳡दु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 96 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : भृग्वङ्गिरा | देवता : वनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : ओषधियों के गुणों का उपदेश।

पदपाठ : मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अथो॒ इति॑ । व॒रु॒ण्या᳡त् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥९६.२॥

पदार्थ : वे [ओषधे] (मा) मुझको (शपथ्यात्) शपथसम्बन्धी (अथो) और (वरुण्यात्) श्रेष्ठों में हुए [अपराध] से (अथो) और (यमस्य) न्यायकारी राजा के (पड्वीशात्) बेड़ी डालने से (उत) और (विश्वस्मात्) सब (देवकिल्बिषात्) इन्द्रियों के दोष से (मुञ्चन्तु) मुक्त करें ॥२॥ "

भावार्थ :

टिप्पणी :२−(मुञ्चन्तु) विसृजन्तु (मा) माम् (शपथ्यात्) शपथे भवात् (अथो) अपि च (वरुण्यात्) वरुणेषु वरेषु भवादपराधात् (उत) अपि (अथो) (यमस्य) न्यायिनो राज्ञः (पड्वीशात्) सर्त्तरटिः। उ० १।१३४। इति पश बन्धने−अटि, स च डित्+विश प्रवेशे−क, छान्दसो दीर्घः। पड्भिः पदनाम−निघ० ४।२। पड्भिः पानैरिति वा स्पाशनैरिति वा स्पर्शनैरिति वा−निरु० ५।३। पाशप्रवेशात् (विश्वस्मात्) सर्वस्मात् (देवकिल्बिषात्) किल्बिषम्−अ० ५।१९।५। इन्द्रियाणां दोषात् ॥