Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 106 / 1

आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑। उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 106 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : प्रमोचन | देवता : दूर्वा, शाला | छन्द : अनुष्टुप् | स्वर :

विषय : गढ़ बनाने का उपदेश।

पदपाठ : आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वा॑: । रो॒ह॒न्तु॒ । पु॒ष्पिणी॑: । उत्स॑: । वा॒ । तत्र॑ । जाय॑ताम् । ह्र॒द: । वा॒ । पु॒ण्डरी॑कऽवान् ॥१०६.१॥

पदार्थ : [हे मनुष्य !] (ते) तेरे (आयने) आगमनमार्ग और (परायणे) निकास में (पुष्पिणीः) फूलवाली (दूर्वाः) दूब घासें (रोहन्तु) उगें। (वा) और (तत्र) वहाँ (उत्सः) कुआँ (वा) और (पुण्डरीकवान्) कमलोंवाला (ह्रदः) ताल (जायताम्) होवे ॥१॥"

भावार्थ :

टिप्पणी :१−(आयने) आङ्+इण् गतौ−ल्युट्। आगमने (ते) तव (परायणे) इण्−ल्युट्। बहिर्गमने (दूर्वाः) दूर्वी हिंसायाम्−अ। स्वनामख्यातघासाः। सहस्रवीर्याः। हरिताः (रोहन्तु) उद्भवन्तु (पुष्पिणीः) बहुपुष्पयुक्ताः (उत्सः) अ० १।१५।३। कूपः−निघ० ३।२३। (वा) चार्थे (तत्र) तस्मिन् देशे (जायताम्) वर्तताम् (ह्रदः) अगाधजलाशयः (पुण्डरीकवान्) फर्फरीकादयश्च। उ० ४।२०। इति पुडि खण्डने−यद्वा पुण शुभकर्मणि−ईकन्, उभयपक्षे पृषोदरादित्वात्साधुः। कमलैर्युक्तः ॥