Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 110 / 3

व्या॒घ्रेऽह्न्य॑जनिष्ट वी॒रो न॑क्षत्र॒जा जाय॑मानः सु॒वीरः॑। स मा व॑धीत्पि॒तरं॒ वर्ध॑मानो॒ मा मा॒तरं॒ प्र मि॑नी॒ज्जनि॑त्रीम् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 110 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : ऐश्वर्य बढ़ाने के लिये उपदेश।

पदपाठ : व्या॒घ्रे । अह्नि॑ । अ॒ज॒नि॒ष्ट॒ । वी॒र: । न॒क्ष॒त्र॒ऽजा: । जाय॑मान: । सु॒ऽवी॑र: । स: । मा । व॒धी॒त् । पि॒तर॑म् । वर्ध॑मान: । मा । मा॒तर॑म् । प्र । मि॒नी॒त् । जनि॑त्रीम् ॥११०.३॥

पदार्थ : (वीरः) यह वीर पुरुष (नक्षत्रजाः) नक्षत्र के समान गति, उपाय उत्पन्न करनेवाला (सुवीरः) महावीर (जायमानः) होता हुआ (व्याघ्रे) व्याघ्र के समान बलवान् (अति) दिन में [माता-पिता के बल के समय] (अजनिष्ट) उत्पन्न हुआ है। (सः) वह (वर्धमानः) बढ़ता हुआ (पितरम्) पिता को (मा वधीत्) न मारे और (जनित्रीम्) जन्म देनेवाली (मातरम्) माता को (मा प्र मिनीत्) कभी न सतावे ॥३॥"

भावार्थ :

टिप्पणी :३−(व्याघ्रे) अ० ४।२।१। सिंहो व्याघ्र इति पूजायाम् व्याघ्रो व्याघ्रणाद् व्यादाय हन्तीति वा−निरु० ३।१८। व्याघ्रतुल्ये बलवति (अह्नि) दिने। काले (अजनिष्ट) जातोऽभूत् (वीरः) वीर्योपेतः (नक्षत्रजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति नक्ष+जन जनने विट्। विड्वनोरनुनासिकस्यात् पा० ६।४।४१। इत्यात्वम्। नक्षत्रसमानां गतिमुपायं जनयति यः सः (जायमानः) उत्पद्यमानः (सुवीरः) अतिशूरः (सः) (मा वधीत्) मा हन्तु (पितरम्) पालकं जनकम् (वर्धमानः) वृद्धिं कुर्वन् (मातरम्) मानकर्त्रीम् (मा प्र मिनीत्) मीञ् हिंसायाम्, लिङि सिपि छान्दसं रूपम्। मा प्र मीनीयात् न दुःखयेत् (जनित्रीम्) जनयित्रीम्। जननीम् ॥