Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 122 / 3

अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 122 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : भृगु | देवता : विश्वकर्मा | छन्द : त्रिष्टुप् | स्वर :

विषय : आनन्द की प्राप्ति करने का उपदेश।

पदपाठ : अ॒नु॒ऽआर॑भेथाम् । अ॒नु॒ऽसंर॑भेथाम् । ए॒तम् । लो॒कम् । श्र॒त्ऽदधा॑ना: । स॒च॒न्ते॒ । यत् । वा॒म् । प॒क्वम् । परि॑ऽविष्टम् । अ॒ग्नौ । तस्य॑ । गुप्त॑ये । दं॒प॒ती॒ इति॑ दम्ऽपती । सम् । श्र॒ये॒था॒म् ॥१२२.३॥

पदार्थ : (दम्पती) हे स्त्री-पुरुषो ! [सत्कर्म को] (अन्वारभेथाम्) निरन्तर आरम्भ करो, (अनुसंरभेथाम्) मिल कर आरम्भ करते रहो, (श्रद्दधानाः) श्रद्धावाले लोग (एतम्) इस [स्वर्ग] (लोकम्) लोक को (सचन्ते) निरन्तर सेवते हैं। (अग्नौ) अग्नि में (पक्वम्) पका हुआ (यत्) जो [अत्र] (वाम्) तुम्हारे लिये (परिविष्टम्) उपस्थित है, (तस्य गुप्तये) उसकी रक्षा के लिये (सम् श्रयेथाम्) तुम दोनों परस्पर आश्रय लो ॥३॥"

भावार्थ :

टिप्पणी :३−(अन्वारभेथाम्) निरन्तरमारम्भं कुरुतं समेत्य (अनुसंरभेथाम्) निरन्तरं संयुक्तौ भूत्वा आरम्भं कुरुतम् (एतम्) (लोकम्) दर्शनीयं स्वर्गम् (श्रद्धधानाः) श्रद्धावन्तः कर्मानुष्ठानतत्पराः (सचन्ते) सेवन्ते−निरु० ३।२१। (यत्) अन्नम् (वाम्) युवाभ्याम् (पक्वम्) पाकेन संस्कृतम् (परिविष्टम्) प्राप्तम् (अग्नौ) पावके (तस्य) अन्नस्य (गुप्तये) रक्षणाय (दम्पती) राजदन्तादिषु परम्। पा० २।२।३१। अत्र पाठात् जायाया दमभावो विपात्यते। भार्य्यापती (सम्) समन्तात् (श्रयेथाम्) श्रिञ् सेवायाम्, सेवेथाम् ॥