Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 73 / 7

उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी᳡द्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥ 7॥

Veda : Atharvaveda | Kand : 7 | Sukta : 73 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : अथर्वा | देवता : घर्मः, अश्विनौ | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : उप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्त॑: । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । न॒: । अ॒भिऽइ॑ध्द: । घ॒र्म: । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त् ॥७७.७॥

पदार्थ : (सुदुघाम्) अच्छे प्रकार कामनायें पूरी करनेवाली (एताम्) इस (धेनुम्) विद्या को (उप ह्वये) मैं स्वीकार करता हूँ, (उत्) वैसे ही (सुहस्तः) हस्तक्रिया में चतुर (गोधुक्) विद्या को दोहनेवाला [विद्वान्] (एनाम्) इस [विद्या] को (दोहत्) दुहे। (सविता) ऐश्वर्यवान् परमेश्वर (श्रेष्ठम्) श्रेष्ठ (सवम्) ऐश्वर्य को (नः) हमारे लिये (साविषत्) उत्पन्न करे। (अभीद्धः) सब ओर प्रकाशमान (घर्मः) प्रतापी परमेश्वर ने (तत् उ) उस सबको (सुः) अच्छे प्रकार (प्र वोचत्) उपदेश किया है ॥७॥"

भावार्थ :

टिप्पणी :७−(उप) सादरम् (ह्वये) स्वीकरोमि (सुदुघाम्) दुहः कब्घश्च। पा० ३।२।७०। सु+दुह प्रपूरणे-कप्, हस्य घः। सुष्ठु कामप्रपूरिकाम् (धेनुम्) वाचम्। विद्याम्-म० २। (एताम्) (सुहस्तः) अत्यन्तहस्तक्रियाकुशलः (गोधुक्) विद्यादोहकः (उत्) (दोहत्) लेटि रूपम्। दोग्धु (एनाम्) वाचम् (श्रेष्ठम्) (सवम्) ऐश्वर्यम् (सविता) सर्वप्रेरकः परमेश्वरः (साविषत्) अ० ६।१।३। उत्पादयेत् (नः) अस्मभ्यम् (अभीद्धः) सर्वतः दीप्तः (घर्मः) प्रकाशमानः परमेश्वरः (तत्) पूर्वोक्तं सर्वम् (उ) (सु) (प्र) (वोचत्) ब्रूञ्-लुङ्, अडभावश्छान्दसः। उपदिष्टवान् ॥