Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 80 / 4

पौ॑र्णमा॒सी प्र॑थ॒मा य॒ज्ञिया॑सी॒दह्नां॒ रात्री॑णामतिशर्व॒रेषु॑। ये त्वां य॒ज्ञैर्य॑ज्ञिये अ॒र्धय॑न्त्य॒मी ते॒ नाके॑ सु॒कृतः॒ प्रवि॑ष्टाः ॥ 4॥

Veda : Atharvaveda | Kand : 7 | Sukta : 80 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : अथर्वा | देवता : पौर्णमासी | छन्द : त्रिष्टुप् | स्वर :

विषय : ईश्वर के गुणों का उपदेश

पदपाठ : पौ॒र्ण॒ऽमा॒सी । प्र॒थ॒मा । य॒ज्ञिया॑ । आ॒सी॒त् । अह्ना॑म् । रात्री॑णाम् । अ॒ति॒ऽश॒र्व॒रेषु॑ । ये । त्वाम् । य॒ज्ञै: । य॒ज्ञि॒ये॒ । अ॒र्धय॑न्ति । अ॒मी इति॑ । ते । नाके॑ । सु॒ऽकृत॑:। प्रऽवि॑ष्टा: ॥८५.४॥

पदार्थ : (पौर्णमासी) पौर्णमासी [सम्पूर्ण परिमेय पदार्थों की आधार शक्ति] (अह्नाम्) दिनों के बीच और (रात्रीणाम्) रात्रियों के (अतिशर्वरेषु) अत्यन्त अन्धकारों में (प्रथमा) पहिली (यज्ञिया) पूजा योग्य (आसीत्) हुई है। (यज्ञिये) हे पूजायोग शक्ति ! (ये) जो (त्वाम्) तुझे (यज्ञैः) पूजनीय व्यवहारों से (अर्धयन्ति) पूजते हैं, (अमी) यह सब [आगे और पीछे होनेवाले] (सुकृतः) सुकर्मी लोग (नाके) आनन्द में (प्रविष्टाः) प्रविष्ट होते हैं ॥४॥"

भावार्थ :

टिप्पणी :४−(पौर्णमासी)-म० १। सम्पूर्णपरिमेयपदार्थाधारा शक्तिः (प्रथमा) आद्या (यज्ञिया) पूजार्हा (अह्नाम्) दिनानां मध्ये (रात्रीणाम्) (अतिशर्वरेषु) कॄगॄशॄवृञ्चतिभ्यः ष्वरच्। उ० २।१२१। शॄ हिंसायाम्−ष्वरच्। शर्वरं तमः। अत्यन्तान्धकारेषु (ये) मनुष्याः (त्वाम्) पौर्णमासीम् (यज्ञैः) पूजनीयैः कर्मभिः (यज्ञिये) पूजार्हे (अर्धयन्ति) ऋधु वृद्धौ-णिच्। वर्धयन्ति। अर्चन्ति (अमी) इदानीन्तनाः (ते) दूरस्थाः। भूते भविष्यति च भवाः (नाके) सुखे (सुकृतः) सुकर्माणः (प्रविष्टाः) स्थिता भवन्ति ॥