Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 115 / 2

या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्। अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥ 2॥

Veda : Atharvaveda | Kand : 7 | Sukta : 115 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वाङ्गिराः | देवता : सविता, जातवेदाः | छन्द : त्रिष्टुप् | स्वर :

विषय : दुर्लक्षण के नाश का उपदेश।

पदपाठ : या । मा॒ । ल॒क्ष्मी: । प॒त॒या॒लू: । अजु॑ष्टा: । अ॒भि॒ऽच॒स्कन्द॑ । वन्द॑नाऽइव । वृ॒क्षम् । अ॒न्यत्र॑ । अ॒स्मत् । स॒वि॒त॒: । ताम् । इ॒त: । धा॒: । हिर॑ण्यऽहस्त: । वसु॑ । न॒: । ररा॑ण: ॥१२०.२॥

पदार्थ : (या) जो (पतयालूः) गिरानेवाला (अजुष्टा) अप्रिय (लक्ष्मीः) लक्षण (मा) मुझ पर (अभिचस्कन्द) आ चढ़ा है, (इव) जैसे (वन्दना) बेल (वृक्षम्) वृक्ष पर। (सवितः) हे ऐश्वर्यवान् [परमेश्वर !] (हिरण्यहस्तः) तेज वा सुवर्ण हाथ में रखनेवाला, (नः) हमें (वसु) धन (रराणः) देता हुआ तू (इतः) यहाँ से, (अस्मत्) हमसे (अन्यत्र) दूसरे [दुष्टों में] (ताम्) उसको (धाः) धर ॥२॥"

भावार्थ :

टिप्पणी :२−(या) (मा) माम् (लक्ष्मीः) म० १। लक्षणम् (पतयालूः) स्पृहिगृहिपतिदयि०। पा० ३।२।१५८। पत गतौ, चुरादिः, अदन्तः-आलुच्। ऊङुतः। पा० ४।१।६६। ऊङ् स्त्रियाम्। पातयित्री। दुर्गतिकारिणी (अजुष्टा) अप्रिया (अभिचस्कन्द) स्कन्दिर् गतिशोषणयोः-लिट्। अभितः प्राप (वन्दना) सू० ११३ म० १ लता (इव) यथा (वृक्षम्) (अन्यत्र) अन्येषु दुष्टेषु (अस्मत्) अस्मत्तः धार्मिकेभ्यः (सवितः) हे परमैश्वर्यवन् परमात्मन् (ताम्) लक्ष्मीम्। लक्षणम् (इतः) अस्मात् स्थानात् (धाः) दध्याः (हिरण्यहस्तः) हिरण्यं तेजः सुवर्णं वा हस्ते वशे यस्य सः (वसु) धनम् (नः) अस्मभ्यम् (रराणः) अ० ५।२७।११। ददानः ॥