Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 1 / 5

तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥ 5॥

Veda : Atharvaveda | Kand : 8 | Sukta : 1 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्य कर्त्तव्य का उपदेश।

पदपाठ : तुभ्य॑म् । वात॑: । प॒व॒ता॒म् । मा॒त॒रिश्वा॑ । तुभ्य॑म् । व॒र्ष॒न्तु॒ । अ॒मृता॑नि । आप॑: । सूर्य॑: । ते॒ । त॒न्वे᳡ । शम् । त॒पा॒ति॒ । त्वाम् । मृ॒त्यु: । द॒य॒ता॒म् । मा । प्र । मे॒ष्ठा॒: ॥१.५॥

पदार्थ : (तुभ्यम्) तेरे लिये (मातरिश्वा) अन्तरिक्ष में चलनेवाला (वातः) वायु (पवताम्) शुद्ध हो, (तुभ्यम्) तेरे लिये (आपः) जलधाराएँ (अमृतानि) अमृत वस्तुएँ (वर्षन्तु) बरसावें। (सूर्यः) सूर्य (ते) तेरे (तन्वे) शरीर के लिये (शम्) शान्ति से (तपाति) तपे, (मृत्युः) मृत्यु (त्वाम्) तुझ पर (दयताम्) दया करे, (मा प्र मेष्ठाः) तू मत दुःखी होवे ॥५॥"

भावार्थ :

टिप्पणी :५−(तुभ्यम्) त्वदर्थम् (वातः) वायुः (पवताम्) शुद्धयतु (मातरिश्वा) अ० ५।१०।८। अन्तरिक्षसंचारी (तुभ्यम्) (वर्षन्तु) सिञ्चन्तु (अमृतानि) मृत्युनिवारकाणि वस्तूनि (आपः) जलधाराः (सूर्यः) (ते) तव (तन्वे) शरीराय (शम्) सुखम् (तपाति) लेटि, आडागमः (त्वाम्) (मृत्युः) (दयताम्) दय रक्षणे। पालयतु। (मा प्र मेष्ठाः) मीङ् हिंसायाम्-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१–०। इट्प्रतिषेधः। हिंसितो दुःखितो भा भूः ॥