Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 2 / 6

जी॑व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॑यमा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥ 6॥

Veda : Atharvaveda | Kand : 8 | Sukta : 2 | Paryay : | Mantra No : 6

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : पथ्यापङ्क्तिः | स्वर :

विषय : कल्याण की प्राप्ति का उपदेश।

पदपाठ : जी॒व॒लाम् । न॒घ॒ऽरि॒षाम् । जी॒व॒न्तीम् । ओष॑धीम् । अ॒हम् । त्रा॒य॒मा॒णाम् । सह॑मानाम् । सह॑स्वतीम् । इ॒ह । हु॒वे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥२.६॥

पदार्थ : (जीवलाम्) जीवन देनेवाली, (नघारिषाम्) न कभी हानि करनेवाली, (जीवन्तीम्) जीव रखनेवाली, (त्रायमाणाम्) रक्षा करनेवाली, (सहमानाम्) [रोग] दबा लेनेवाली, (सहस्वतीम्) बलवाली (ओषधीम्) ओषधि [समान वेदविद्या] को (इह) यहाँ [आत्मा में] (अस्मै) इस [पुरुष] को (अरिष्टतातये) शुभ करने के लिये (अहम्) मैं (हुवे) बुलाता हूँ ॥६॥"

भावार्थ :

टिप्पणी :६−(जीवलाम्) जीव+ला दाने-क, टाप्। जीवप्रदाम् (नघारिषाम्) स घा वीरो न रिष्यति-ऋक्० १।१८।४। एवमत्र (न) निषेधे (घ) अवधारणे, सांहितिको दीर्घः, रिष हिंसायाम्-क, टाप्। नैव हिंसाशीलाम् (जीवन्तीम्) रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि। उ० ३।१२७। जीव प्राणधारणे-झच्, षित्त्वात् ङीष्। प्राणधारिकाम्। अशुष्काम् (ओषधीम्) भेषजम् (त्रायमाणाम्) रक्षन्तीम् (सहमानाम्) रोगस्याभिभवित्रीम् (सहस्वतीम्) बलवतीम् (इह) आत्मनि (हुवे) आह्वयामि (अस्मै) जीवहिताय (अरिष्टतातये) अ० ३।५।५। शुभकरणाय ॥