Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 2 / 13

अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः। यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥ 13॥

Veda : Atharvaveda | Kand : 8 | Sukta : 2 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : त्रिष्टुप् | स्वर :

विषय : कल्याण की प्राप्ति का उपदेश।

पदपाठ : अ॒ग्ने: । ते॒ । प्रा॒णम् । अ॒मृता॑त् । आयु॑ष्मत: । व॒न्वे॒ । जा॒तऽवे॑दस: । यथा॑ । न । रिष्या॑: । अ॒मृत॑: । स॒ऽजू: । अस॑: । तत् । ते॒ । कृ॒णो॒मि॒ । तत् । ऊं॒ इति॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् ॥२.१३॥

पदार्थ : [हे मनुष्य !] (ते) तेरे (प्राणम्) प्राण को (अमृतात्) अमर, (आयुष्मतः) बड़ी आयुवाले, (जातवेदसः) उत्पन्न पदार्थों के जाननेवाले (अग्नेः) अग्नि [सर्वव्यापक परमेश्वर] से (वन्वे) मैं माँगता हूँ। (यथा) जिससे (न रिष्याः) तू न मरे, (सजूः) [उसके साथ] प्रीतिवाला तू (अमृतः) अमर (असः) रहे, मैं (तत्) वह [कर्म] (ते) तेरे लिये (कृणोमि) करता हूँ, (तत् उ) वही (ते) तेरे लिये (सम्) यथावत् (ऋध्यताम्) सिद्ध होवे ॥१३॥"

भावार्थ :

टिप्पणी :१३−(अग्नेः) सर्वव्यापकात् परमेश्वरात् (ते) तव (प्राणम्) जीवनम् (अमृतात्) अमरात् (आयुष्मतः) दीर्घायुर्युक्तात् (वन्वे) अहं याचे (जातवेदसः) उत्पन्नपदार्थज्ञात् (यथा) येन प्रकारेण (न रिष्याः) मा मृथाः (अमृतः) अमरः (सजूः) परमेश्वरेण सह प्रीतिः (तत्) कर्म (ते) तुभ्यम् (कृणोमि) करोमि (तत्) (उ) अवधारणे (ते) तुभ्यम् (सम्) सम्यक् (ऋध्यताम्) सिध्यतु ॥