Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 3 / 11

त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑। तम॒र्चिषा॑ स्फूर्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि यु॑ङ्ग्धि ॥ 11॥

Veda : Atharvaveda | Kand : 8 | Sukta : 3 | Paryay : | Mantra No : 11

In Hindi:

ऋषि : चातनः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा के धर्म का उपदेश।

पदपाठ : त्रि: । या॒तु॒ऽधान॑: । प्रऽसि॑तिम् । ते॒ । ए॒तु॒। ऋ॒तम् । य: । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवेद: । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । यु॒ङ्ग्धि॒ ‍॥३.११॥

पदार्थ : (अग्ने) हे अग्नि [समान प्रतापी राजन् !] (यातुधानः) वह दुःखदायी पुरुष (त्रिः) तीन बार (ते) तेरी (प्रसितिम्) बेड़ी को (एतु) प्राप्त हो, (यः) जो (ऋतम्) सत्य को (अनृतेन) असत्य से (हन्ति) तोड़ता है। (जातवेदः) हे प्रसिद्ध ज्ञानवाले [राजन् !] (अर्चिषा) अपने तेज से (तम् स्फूर्जयन्) उस पर गरजता हुआ तू (समक्षम्) सब के सन्मुख (एनम्) इस [शत्रु] को (गृणते) स्तुति करनेवाले के [हित के] लिये (नि युङ्ग्धि) बाँध ले ॥११॥"

भावार्थ :

टिप्पणी :११−(त्रिः) त्रिवारम् (यातुधानः) पीडाप्रदः (प्रसितिम्) प्र+षिञ् बन्धने-क्तिन्। प्रसितिः प्रसयनात्तन्तुर्वा जालं वा-निरु० ६।१२। बन्धनम् (ते) तव (एतु) प्राप्नोतु (ऋतम्) सत्यनियमम् (यः) (अग्ने) तेजस्विन् राजन् (अनृतेन) मिथ्याकथनेन (हन्ति) नाशयति (तम्) दुष्टम् (अर्चिषा) तेजसा (स्फूर्जयन्) स्फुर्ज वज्रशब्दे-शतृ। गर्जयन् (जातवेदः) हे प्रसिद्धज्ञान (समक्षम्) प्रत्यक्षम् (एनम्) शत्रुम् (गृणते) स्त्रोत्रं कुर्वते (नियुङ्ग्धि) युज संयमने, चुरादिः, रुधादित्वं छान्दसम्। नियोजय। बधान ॥