Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 4 / 1

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य᳡र्पयतं वृषणा तमो॒वृधः॑। परा॑ शृणीतम॒चितो॒ न्यो᳡षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥ 1॥

Veda : Atharvaveda | Kand : 8 | Sukta : 4 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : चातनः | देवता : इन्द्रासोमौ, अर्यमा | छन्द : जगती | स्वर :

विषय : राजा और मन्त्री के धर्म का उपदेश।

पदपाठ : इन्द्रा॑सोमा । तप॑तम् । रक्ष॑: । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒म॒:ऽवृध॑: । परा॑ । शृ॒णी॒त॒म् । अ॒चित॑: । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्त्रिण॑: ॥४.१॥

पदार्थ : (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (रक्षः) राक्षसों को (तपतम्) तपाओ, (उब्जतम्) दबाओ, (वृषणा) हे बलिष्ठ ! तुम दोनों (तमोवृधः) अन्धकार बढ़ानेवालों को (नि अर्पयतम्) नीचे डालो। (अचितः) अचेतों [मूर्खों] को (परा शृणीतम्) कुचल डालो, (नि ओषतम्) जला दो, (अत्त्रिणः) खाऊ जनों को (हतम्) मारो, (नुदेथाम्) ढकेलो, (नि शिशीतम्) छील डालो [दुर्बल कर दो] ॥१॥"

भावार्थ :

टिप्पणी :१−(इन्द्रासोमा) देवताद्वन्द्वे च। पा० ६।३।२६। इत्यानङ्। इन्द्रः सूर्यश्च सोमश्चन्द्रश्च तौ। तादृशौ राजमन्त्रिणौ (तपतम्) तापयतम् (रक्षः) जातावेकवचनम्। रक्षांसि (उब्जतम्) उब्ज आर्जवे हिंसने च। हिंस्तम् (नि अर्पयतम्) ऋ गतौ, णिचि, पुगागमः। नीचैः प्रापयतम् (वृषणा) वृषणौ। बलिष्ठौ (तमोवृधः) अन्धकारवर्धकान् (परा शृणीतम्) विमर्दयतम् (अचितः) अचित्तान्। मूढान् (नि ओषतम्) नितरां दहतम् (हतम्) मारयतम् (नुदेथाम्) प्रेरयेथाम् (नि शिशीतम्) शो तनूकरणे। नितरां तनूकुरुतम्। निर्बलान् कुरुतम् (अत्त्रिणः) अ० १।७।३। अदनशीलान्। भक्षकान् ॥