Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 7 / 15

सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या᳡ एतु स्रो॒त्याः ॥ 15॥

Veda : Atharvaveda | Kand : 8 | Sukta : 7 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : अथर्वा | देवता : भैषज्यम्, आयुष्यम्, ओषधिसमूहः | छन्द : अनुष्टुप् | स्वर :

विषय : रोग के विनाश का उपदेश।

पदपाठ : सिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥

पदार्थ : वे [रोग] (आभृताभ्यः) सब प्रकार पुष्ट की हुई [ओषधियों] से (विजन्ते) डरते हैं, (इव) जैसे (सिंहस्य) सिंह की (स्तनथोः) गर्जन से और (इव) जैसे (अग्नेः) अग्नि से (सम् विजन्ते) [प्राणी] डरकर भागते हैं। (गवाम्) गौओं का और (पुरुषाणाम्) पुरुषों का (यक्ष्मः) राजरोग (वीरुद्भिः) ओषधियों करके (नाव्याः) नौका से उतरने योग्य (स्रोत्याः) नदियों के (अतिनुत्तः) पार प्रेरणा किया गया (एतु) चला जावे ॥१५॥"

भावार्थ :

टिप्पणी :१५−(सिंहस्य) अ० ४।८।७। हिंस्रजन्तुविशेषस्य (इव) यथा (स्तनथोः) अ० ५।३१।६। गर्जनात् (सम् विजन्ते) अ० ५।२१।६। भयेन चलन्ति प्राणिन इति शेषः (अग्नेः) पावकात् (इव) (विजन्ते) बिभ्यति रोगा इति शेषः (आभृताभ्यः) समन्तात् पोषिताभ्यो वीरुद्भ्यः (गवाम्) धेनूनाम् (यक्ष्मः) राजरोगः (वीरुद्भिः) ओषधीभिः (अतिनुत्तः) णुद प्रेरणे-क्त। अतीत्य प्रेरितः (नाव्याः) अ० ८।५।९। नावा पार्याः (एतु) गच्छतु (स्रोत्याः) अ० १।१३२।३। नदीः ॥