Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 1 / 2

म॒हत्पयो॑ वि॒श्वरू॑पमस्याः समु॒द्रस्य॑ त्वो॒त रेत॑ आहुः। यत॒ ऐति॑ मधुक॒शा ररा॑णा॒ तत्प्रा॒णस्तद॒मृतं॒ निवि॑ष्टम् ॥ 2॥

Veda : Atharvaveda | Kand : 9 | Sukta : 1 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : मधु, अश्विनौ | छन्द : त्रिब्टुगर्भा पङ्क्तिः | स्वर :

विषय : ब्रह्म की प्राप्ति का उपदेश।

पदपाठ : म॒हत् । पय॑: । वि॒श्वऽरू॑पम् । अ॒स्या॒: । स॒मु॒द्रस्य॑ । त्वा॒ । उ॒त । रेत॑: । आ॒हु॒: । यत॑: । आ॒ऽएति॑ । म॒धु॒ऽक॒शा। ररा॑णा । तत् । प्रा॒ण: । तत् । अ॒मृत॑म् । निऽवि॑ष्टम् ॥१.२॥

पदार्थ : [हे मधुकशा !] (त्वा) तुझको (अस्याः) इस [पृथिवी] का (विश्वरूपम्) सब प्रकार रूपवाला (महत्) बड़ा (पयः) बल [वा अन्न] (उत) और (समुद्रस्य) सूर्य का (रेतः) बीज (आहुः) वे [विद्वान्] बताते हैं। (यतः) जिस [ब्रह्म] से (रराणा) दानशील (मधुकशा) मधुकशा [वेदवाणी] (ऐति) आती है, (तत्) उस [ब्रह्म] में (प्राणः) प्राण [जीवन], (तत्) उस में (अमृतम्) अमृत [मोक्षसुख] (निविष्टम्) निरन्तर भरा है ॥२॥"

भावार्थ :

टिप्पणी :२−(महत्) बृहत् (पयः) पय गतौ-असुन्। पयः पिबतेर्वा प्यायतेर्वा-निरु० २।५। बलम्। अन्नम्-निघ० २।७। (विश्वरूपम्) सर्वविधरूपयुक्तम् (अस्याः) पृथिव्याः (समुद्रस्य) अ० १।१३।३। समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। सूर्यलोकस्य (त्वा) त्वां मधुकशाम् (उत) अपि च (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (यतः) यस्माद् ब्रह्मणः (ऐति) आगच्छति (मधुकशा) म० १। मधुविद्या (रराणा) अ० ५।२७।११। दानशीला (तत्) तस्मिन् ब्रह्मणि (प्राणः) जीवनसामर्थ्यम् (तत्) तत्र (अमृतम्) मोक्षसुखम् (निविष्टम्) निरन्तरप्रविष्टम् ॥