Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 2

यन्मे॒ मन॑सो॒ न प्रि॒यं न चक्षु॑षो॒ यन्मे॒ बभ॑स्ति॒ नाभि॒नन्द॑ति। तद्दुः॒ष्वप्न्यं॒ प्रति॑ मुञ्चामि स॒पत्ने॒ कामं॑ स्तु॒त्वोद॒हं भि॑देयम् ॥ 2॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : त्रिष्टुप् | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : यत् । मे॒ । मन॑स: । न । प्रि॒यम् । न । चक्षु॑ष: । यत् । मे॒ । बभ॑स्ति । न । अ॒भि॒ऽनन्द॑ति । तत् । दु॒:ऽस्वप्न्य॑म् । प्रति॑ । मु॒ञ्चा॒मि॒ । स॒ऽपत्ने॑ । काम॑म् । स्तु॒त्वा । उत् । अ॒हम् । भि॒दे॒य॒म् ॥२.२॥

पदार्थ : (यत्) जो [दुष्टकर्म] (मे) मेरे (मनसः) मन का (न प्रियम्) प्रिय नहीं है और (न चक्षुषः) न नेत्र का, और (यत्) जो (मे) मेरा (बभस्ति) तिरस्कार करता है और (न) न (अभिनन्दति) कुछ आनन्द देता है, (तत्) उस (दुःष्वप्न्यम्) दुष्ट स्वप्न को (सपत्ने) शत्रुनाश के लिये (प्रति मुञ्चामि) मैं छोड़ता हूँ, (कामम्) कमनीय परमेश्वर की (स्तुत्वा) स्तुति करके (अहम्) मैं (उत् भिदेयम्) ऊपर निकल जाऊँ ॥२॥"

भावार्थ :

टिप्पणी :२−(यत्) दुष्टकर्म (मे) मम (मनसः) अन्तःकरणस्य (न) निषेधे (प्रियम्) हितकरम् (न) (चक्षुषः) नेत्रस्य। बहिरङ्गस्य (यत्) (मे) (बभस्ति) भस भर्त्सनदीप्त्योः। निन्दां करोति (न) (अभिनन्दति) सर्वतः सुखयति (तत्) (दुःष्वप्न्यम्) दुष्टस्वप्नम् (प्रति मुञ्चामि) सर्वतो मोचयामि (सपत्ने) निमित्तात् कर्मयोगे सप्तमी वक्तव्या। वा० पा० २।३।३६। शत्रुहननाय (कामम्) कमनीयं परमेश्वरम् (स्तुत्वा) प्रशस्य (अहम्) उपासकः (उद्भिदेयम्) छान्दसो विधिलिङ्। उद् भिन्द्याम्। उन्नतो भवेयम् ॥