Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 8

इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥ 8॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : त्रिपदार्ची पङ्क्तिः | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : इ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जु॒षा॒णा: । काम॑ऽज्येष्ठा: । इ॒ह । मा॒द॒य॒ध्व॒म् । कृ॒ण्वन्त॑: । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व ॥२.८॥

पदार्थ : [हे विद्वानो !] (इदम्) इस (घृतवत्) प्रकाशयुक्त (आज्यम्) पूर्ण गति को (जुषाणाः) सेवन करते हुए, (कामज्येष्ठाः) कामनायोग्य परमेश्वर को सबसे बड़ा मानते हुए, (मह्यम्) मुझको (एव) अवश्य (असपत्नम्) बिना शत्रु (कृण्वन्तः) करते हुए तुम (इह) यहाँ [हमें] (मादयध्वम्) तृप्त करो ॥८॥"

भावार्थ :

टिप्पणी :८−(इदम्) पूर्वोक्तम् (आज्यम्) म० १। समन्ताद् गतिम्। सर्वोपायम् (घृतवत्) प्रकाशयुक्तम् (जुषाणाः) सेवमानाः (कामज्येष्ठाः) कमनीयः परमेश्वरः सर्ववृद्धो येषां ते (इह) अस्मिन् जीवने (मादयध्वम्) अस्मान् तर्पयत (कृण्वन्तः) कुर्वन्तः। अन्यत् पूर्ववत्-म० ७ ॥