Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 14

अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः१॒॑ स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥ 14॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : जगती | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : अस॑र्वऽवीर: । च॒र॒तु॒ । प्रऽनु॑त्त: । द्वेष्य॑: । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡: । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑: ।उ॒ग्र: । व॒: । दे॒व: । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥

पदार्थ : (असर्ववीरः) सब वीरों से रहित, (प्रणुत्तः) बाहर निकाला गया, (मित्राणाम्) मित्रों और (स्वानाम्) जातियों का (परिवर्ग्यः) त्यागा हुआ (द्वेष्यः) शत्रु, (चरतु) फिरता रहे। (उत) और [जैसे] (पृथिव्याम्) पृथिवी पर (विद्युतः) बिजुलियाँ (अव स्यन्ति) गिरती हैं, [वैसे ही] (उग्रः) प्रबल (देवः) विजयी परमेश्वर (वः) तुम (सपत्नान्) शत्रुओं को (प्र मृणत्) नाश कर डाले ॥१४॥"

भावार्थ :

टिप्पणी :१४−(असर्ववीरः) सर्ववीररहितः (चरतु) गच्छतु (प्रणुत्तः) बहिष्प्रेरितः (द्वेष्यः) शत्रुः (मित्राणाम्) (परिवर्ग्यः) परिवर्जनीयः। त्याजनीयः (स्वानाम्) ज्ञातीनाम् (उत) अपि च (पृथिव्याम्) (अव स्यन्ति) अधः पतन्ति (विद्युतः) अशनयः (उग्रः) प्रबलाः (वः) युष्मान् (देवः) विजिगीषुः परमेश्वरः (प्रमृणत्) सर्वथा मारयतु (सपत्नान्) शत्रून् ॥