Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 19

कामो॑ जज्ञे प्रथ॒मो नैनं॑ दे॒वा आ॑पुः पि॒तरो॒ न मर्त्याः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥ 19॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 19

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : त्रिष्टुप् | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : काम॑: । ज॒ज्ञे॒ । प्र॒थ॒म: । न । ए॒न॒म् । दे॒वा: । आ॒पु॒: । पि॒तर॑: । न । मर्त्या॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.१९॥

पदार्थ : (कामः) कामनायोग्य [परमेश्वर] (प्रथमः) पहिले ही पहिले [होकर] (जज्ञे) प्रकट हुआ, (एनम्) इसको (न) न तो (पितरः) पालनशील (देवाः) चलनेवाले लोकों [पृथिवी, सूर्य आदि] और (न) न (मर्त्याः) मनुष्यों ने (आपुः) पाया। (ततः) उससे (त्वम्) तू (ज्यायान्) अधिक बड़ा, (विश्वहा) सब प्रकार (महान्) महान् [पूजनीय] (असि) है, (तस्मै ते) उस तुझको (इत्) ही, (काम) हे कामनायोग्य [परमेश्वर !] (नमः) नमस्कार (कृणोमि) करता हूँ ॥१९॥"

भावार्थ :

टिप्पणी :१९−(कामः) कमनीयः परमेश्वरः (जज्ञे) प्रादुर्बभूव (प्रथमः) सृष्टेः प्राग् वर्तमानः (न) निषेधे (एनम्) परमेश्वरम् (देवाः) गतिमन्तो लोकाः पृथिवीसूर्यादयः (आपुः) प्राप्तवन्तः (पितरः) रक्षितारः (न) (मर्त्याः) मनुष्याः (ततः) तस्मात् कारणात् (त्वम्) (असि) (ज्यायान्) वृद्ध-ईयसुन्। वृद्धतरः (विश्वहा) विश्वधा। सर्वथा (महान्) पूजनीयः (तस्मै) तथाविधाय (ते) तुभ्यम् (काम) (नमः) सत्कारम् (इत्) एव (कृणोमि) करोमि ॥