Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 22

याव॑ती॒र्भृङ्गा॑ ज॒त्वः᳡ कु॒रूर॑वो॒ याव॑ती॒र्वघा॑ वृक्षस॒र्प्यो᳡ बभू॒वुः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥ 22॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 22

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : जगती | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : याव॑ती: । भृङ्गा॑: । ज॒त्व᳡: । कु॒रूर॑व: । याव॑ती: । वघा॑: । वृ॒क्ष॒ऽस॒र्प्य᳡: । ब॒भू॒वु: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२२॥

पदार्थ : (यावतीः) जितनी (कुरूरवः) कुत्सित ध्वनिवाली (भृङ्गाः) भ्रमरी आदि और (जत्वः) चिमगादर आदि और (यावतीः) जितनी (वघाः) टिड्डी आदि और (वृक्षसर्प्यः) वृक्षों पर रेंगनेवाली [कीटादि पङ्कियाँ] (बभूवुः) हुई हैं (ततः) उस से (त्वम्) तू (ज्यायान्) अधिक बड़ा, (विश्वहा) सब प्रकार (महान्) महान् [पूजनीय] (असि) है, (तस्मै ते) उस तुझको (इत्) ही, (काम) हे कामनायोग्य [परमेश्वर !] (नमः) नमस्कार (कृणोमि) करता हूँ ॥२२॥"

भावार्थ :

टिप्पणी :२२−(भृङ्गाः) भृञः किन्नुट् च। उ० १।१२५। डुभृञ् भरणे-गन्, कित् नुट् च। भ्रमर्य्यः (जत्वः) फलिपाटिनमि०। उ० १।१८। जनी प्रादुर्भावे-उ, नस्य तः। जतुकाः। निशाचरपक्षिविशेषाः (कुरूरवः) रूशातिभ्यां क्रुन्। उ० ४।१०३। कु+रु शब्दे−क्रुन्, छान्दसो दीर्घः। कुत्सितध्वनयः (वघाः) अ० ६।५०।३। अन्येष्वपि दृश्यते। पा० ३।२।१०१। अव+हन-हिंसागत्योः-ड, टाप्। वष्टि भागुरिरल्लोपम्-अवशब्दस्य अलोपः। अवहननशीलाः। कीटादयः (वृक्षसर्प्यः) वृक्षेषु सर्पणशीला जन्तुपङ्क्त्यः (बभूवुः) अन्यत् पूर्ववत् ॥