Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 4 / 7

आज्यं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः। इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥ 7॥

Veda : Atharvaveda | Kand : 9 | Sukta : 4 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : ब्रह्मा | देवता : ऋषभः | छन्द : त्रिष्टुप् | स्वर :

विषय : आत्मा की उन्नति का उपदेश।

पदपाठ : आज्य॑म् । बि॒भ॒र्ति॒ । घृ॒तम् । अ॒स्य॒ । रेत॑: । सा॒ह॒स्र: । पोष॑: । तम् । ऊं॒ इति॑ । य॒ज्ञम् । आ॒हु॒: । इन्द्र॑स्य । रू॒पम् । ऋ॒ष॒भ: । वसा॑न: । स: । अ॒स्मान् । दे॒वा॒: । शि॒व: । आ । ए॒तु॒ । द॒त्त: ॥४.७॥

पदार्थ : (अस्य) इस [परमेश्वर] का (घृतम्) प्रकाशयुक्त (रेतः) सामर्थ्य (आज्यम्) सब उपाय (बिभर्ति) धारण करता है, (साहस्रः) वह सहस्रों पराक्रमयुक्त (पोषः) पोषक है, (तम् उ) उसको ही (यज्ञम्) यज्ञ [संयोजक-वियोजक] (आहुः) कहते हैं। (देवाः) हे विद्वान् लोगो ! (इन्द्रस्य) ऐश्वर्य का (रूपम्) रूप (वसानः) धारण करता हुआ (शिवः) मङ्गलकारी, (दत्तः) दिया हुआ [हृदय में रक्खा गया] (सः) वह (ऋषभः) सर्वदर्शक परमेश्वर (अस्मान्) हम लोगों को (आ एतु) अच्छे प्रकार प्राप्त हो ॥७॥"

भावार्थ :

टिप्पणी :७−(आज्यम्) अ० ९।२।१। सर्वोपायम् (बिभर्ति) धरति (घृतम्) दीप्तम् (अस्य) ऋषभस्य (रेतः) सामर्थ्यम् (साहस्रः) म० १। सहस्रपराक्रमयुक्तः (पोषः) पोषकः (तम्) (उ) निश्चयेन (यज्ञम्) संयोजकवियोजकम् (आहुः) कथयन्ति विद्वांसः (इन्द्रस्य) ऐश्वर्यस्य (रूपम्) स्वरूपम् (ऋषभः) म–० १। सर्वदर्शकः (वसानः) धारयन् (सः) (अस्मान्) पुरुषार्थिनः (देवाः) हे विद्वांसः (शिवः) मङ्गलकारी (आ एतु) सम्यक् प्राप्नोतु (दत्तः) आत्मनि रक्षिता ॥