Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 4 / 21

अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्। अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥ 21॥

Veda : Atharvaveda | Kand : 9 | Sukta : 4 | Paryay : | Mantra No : 21

In Hindi:

ऋषि : ब्रह्मा | देवता : ऋषभः | छन्द : आस्तारपङ्क्तिः | स्वर :

विषय : आत्मा की उन्नति का उपदेश।

पदपाठ : अ॒यम् । पिपा॑न: । इन्द्र॑: । इत् । र॒यिम् । द॒धा॒तु॒ । चे॒त॒नीम् । अ॒यम् । धे॒नुम् । सु॒ऽदुघा॑म् । नित्य॑ऽवत्साम् । वश॑म् । दु॒हा॒म् । वि॒प॒:ऽचित॑म् । प॒र: । दि॒व:॥४.२१॥

पदार्थ : (अयम्) यह (पिपानः) प्रवृद्ध, बली (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (इत्) ही (चेतनीम्) चेतानेवाली (रयिम्) लक्ष्मी (दधातु) देवे। (अयम्) यही [परमेश्वर] (सुदुघाम्) अच्छे प्रकार पूर्ण करनेहारी, (नित्यवत्साम्) नित्य निवास देनेवाली (धेनुम्) वाणी और (वशम्) प्रभुत्व को (दिवः) हिंसा वा मद से (परः) परे [रहनेवाले] (विपश्चितम्) बुद्धिमान् पुरुष के लिये (दुहाम्) परिपूर्ण करे ॥२१॥"

भावार्थ :

टिप्पणी :२१−(अयम्) व्यापकः (पिपानः) ओप्यायी वृद्धौ-कानच्, यलोपः। पिप्यानः। प्रवृद्धः। बली (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः। ऋषभः (इत्) एव (रयिम्) अ० १।१५।२। धनम् (दधातु) ददातु (चेतनीम्) चित संचेतने-ल्युट्, ङीप्। चेतयन्तीम् (अयम्) (धेनुम्) वाचम् (सुदुघाम्) अ० ७।७३।७। यथावत्। कामपूरयित्रीम् (नित्यवत्साम्) वस निवासे-स, उ० ३।६२। सदानिवासयित्रीम् (वशम्) प्रभुत्वम् (दुहाम्) अ० ™३।१०।१, द्विकर्मकः। दुग्धाम्। प्रपूरयतु (विपश्चितम्) अ० ६।५२।३। मेधाविनम्-निघ० ३।१५। (परः) परस्तात् (दिवः) दिवु अर्दे मर्दने वा मदे च-डिवि। हिंसनात्। मदात् ॥