Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 5 / 17

येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्व᳡र्दे॒वेषु॒ गन्त॑वे ॥ 17॥

Veda : Atharvaveda | Kand : 9 | Sukta : 5 | Paryay : | Mantra No : 17

In Hindi:

ऋषि : भृगुः | देवता : अजः पञ्चौदनः | छन्द : अनुष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से सुख का उपदेश।

पदपाठ : येन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥

पदार्थ : (अग्ने) हे विद्वन् ! (येन) जिस (येन) नियम से (सहस्रम्) बलवान् पुरुषों को (सर्ववेदसम्) सब प्रकार के ज्ञानों वा धनों से युक्त [यज्ञ] में (वहसि) तू ले जाता है, (तेन) उसी [नियम] से (नः) हमें (इमम्) इस (यज्ञम्) प्राप्त होने योग्य यज्ञ में (देवेषु) विद्वानों के बीच (स्वः) सुख (गन्तवे) पाने के लिये (वह) ले चल ॥१७॥"

भावार्थ :

टिप्पणी :१७−(येन) प्रयत्नेन (सहस्रम्) सहो बलम्-निघ० २।९। रो मत्वर्थे। बलवन्तं पुरुषम् (वहसि) प्रापयसि (येन) यम-ड। नियमेन (अग्ने) हे विद्वन् (सर्ववेदसम्) सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्मिन् तं यज्ञम् (तेन) (इमम्) क्रियमाणम् (यज्ञम्) संगन्तव्यं व्यवहारं प्रति (नः) अस्मान् (वह) नय (स्वः) सुखम् (देवेषु) विद्वत्सु (गन्तवे) तुमर्थे तवेप्रत्ययः। प्राप्तुम् ॥