Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 2 / 15

को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥ 15॥

Veda : Atharvaveda | Kand : 10 | Sukta : 2 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : नारायणः | देवता : ब्रह्मप्रकाशनम्, पुरुषः | छन्द : अनुष्टुप् | स्वर :

विषय : मनुष्यशरीर की महिमा का उपदेश।

पदपाठ : क: । अ॒स्मै॒ । वास॑: । पर‍ि॑ । अ॒द॒धा॒त् । क: । अ॒स्य॒ । आयु॑: । अ॒क॒ल्प॒य॒त् । बल॑म् । क: । अ॒स्मै॒ । प्र । अ॒य॒च्छ॒त् । क: । अ॒स्य॒ । अ॒क॒ल्प॒य॒त् । ज॒वम् ॥२.१५॥

पदार्थ : (कः) विधाता [परमेश्वर] ने (अस्मै) इस [मनुष्य] को (वासः) निवासस्थान (परि) सब ओर से (अदधात्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] का (आयुः) आयु [जीवनकाल] (अकल्पयत्) बनाया है। (कः) विधाता ने (अस्मै) इस [मनुष्य] को (बलम्) बल (प्र अयच्छत्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] के (जवम्) वेग को (अकल्पयत्) रचा है ॥१५॥"

भावार्थ :

टिप्पणी :१५−(कः) म० ५। विधाता (अस्मै) मनुष्याय (वासः) वसेर्णित्। उ० ४।११८। वस निवासे आच्छादने च-असुन्, णित्। निवासस्थानम्। वस्त्रम् (परि) सर्वतः (अदधात्) धृतवान् (कः) (अस्य) मनुष्यस्य (आयुः) जीवनकालम् (अकल्पयत्) रचितवान् (बलम्) सामर्थ्यम् (कः) परमेश्वरः (प्रायच्छत्) दत्तवान् (कः) (अस्य) (अकल्पयत्) (जवम्) वेगम् ॥