Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 2 / 17

को अ॑स्मि॒न्रेतो॒ न्य᳡दधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥ 17॥

Veda : Atharvaveda | Kand : 10 | Sukta : 2 | Paryay : | Mantra No : 17

In Hindi:

ऋषि : नारायणः | देवता : ब्रह्मप्रकाशनम्, पुरुषः | छन्द : अनुष्टुप् | स्वर :

विषय : मनुष्यशरीर की महिमा का उपदेश।

पदपाठ : क: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥

पदार्थ : (कः) प्रजापति [परमेश्वर] ने (अस्मिन्) इस [मनुष्य] में (रेतः) पराक्रम [इसलिये] (नि) निरन्तर (अदधात्) रख दिया है [कि उस का] (तन्तुः) तन्तु [ताँता] (आ) चारों ओर (तायताम् इति) फैले। (कः) प्रजापति ने (मेधाम्) बुद्धि (अस्मिन्) इस [मनुष्य] में (अधि औहत्) लाकर दी है, (कः) प्रजापति ने (बाणम्) बोलना और (कः) प्रजापति ने (नृतः) नृत [शरीर चलाना] (दधौ) दिया है ॥१७॥"

भावार्थ :

टिप्पणी :१७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥